ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
सर्वोपेता च तद्दर्शनात् ॥ ३० ॥

इदानीं तस्य विचित्रशक्तित्वे प्रमाणमाह –

सर्वोपेता चेति ।

मायाशक्तिमतो ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः ।