मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥
स्यादेतत्
—
विकरणां
परां
देवतां
शास्ति
शास्त्रम्
—
‘
अचक्षुष्कमश्रोत्रमवागमनाः
’ (बृ. उ. ३ । ८ । ८)
इत्येवंजातीयकम्
।
कथं
सा
सर्वशक्तियुक्तापि
सती
कार्याय
प्रभवेत्
?
देवादयो
हि
चेतनाः
सर्वशक्तियुक्ता
अपि
सन्त
आध्यात्मिककार्यकरणसम्पन्ना
एव
तस्मै
तस्मै
कार्याय
प्रभवन्तो
विज्ञायन्ते
।
कथं
च
‘
नेति
नेति
’ (बृ. उ. ३ । ९ । २६)
इति
प्रतिषिद्धसर्वविशेषाया
देवतायाः
सर्वशक्तियोगः
सम्भवेत्
,
इति
चेत्
—
यदत्र
वक्तव्यं
तत्पुरस्तादेवोक्तम्
।
श्रुत्यवगाह्यमेवेदमतिगम्भीरं
ब्रह्म
न
तर्कावगाह्यम्
।
न
च
यथैकस्य
सामर्थ्यं
दृष्टं
तथान्यस्यापि
सामर्थ्येन
भवितव्यमिति
नियमोऽस्तीति
।
प्रतिषिद्धसर्वविशेषस्यापि
ब्रह्मणः
सर्वशक्तियोगः
सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव
।
तथा
च
शास्त्रम्
—
‘
अपाणिपादो
जवनो
ग्रहीता
पश्यत्यचक्षुः
स
शृणोत्यकर्णः
’ (श्वे. उ. ३ । १९)
इत्यकरणस्यापि
ब्रह्मणः
सर्वसामर्थ्ययोगं
दर्शयति
॥ ३१ ॥
विकरणत्वादिति
;
पूर्वपक्षमनुभाष्य दूषयति -
विकरणत्वादिति ।