ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥
स्यादेतत्विकरणां परां देवतां शास्ति शास्त्रम्अचक्षुष्कमश्रोत्रमवागमनाः’ (बृ. उ. ३ । ८ । ८) इत्येवंजातीयकम्कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् ? देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसम्पन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्तेकथं नेति नेति’ (बृ. उ. ३ । ९ । २६) इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः सम्भवेत् , इति चेत्यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम्श्रुत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म तर्कावगाह्यम् यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीतिप्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेवतथा शास्त्रम्अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति ॥ ३१ ॥

यद्यप्यन्तर्याम्यधिकरणे जगद्ब्रह्मणोर्मायार्जितत्वसम्बन्धे सिद्धे कार्यकरणविरहिणोऽपि नियन्तृत्वमुक्तं, तथापि कार्यकारणविरहिणो मायासम्बन्ध एव न सम्भवतीति विवक्षितत्वात्कुलालादीनां कार्यकरणवतां मृदाद्यधिष्ठातृत्वदर्शनाद्ब्रह्मणस्तद्धीनस्य नाधिष्ठातृत्वेन कारणत्वमिति चोद्यं विवृणोति -

स्यादेतदिति ।

ब्रह्मणः सर्वशक्तित्वादकार्यकरणत्वेऽपि कारणत्वमुपपन्नमित्याशङ्क्याह -

कथं सेति ।

न हि कार्यकरणरहितस्य मुक्तवन्मायाशक्तिमत्त्वं, तद्वत्त्वेऽपि न कार्यक्षमत्वम् । सुषुप्तवदित्यर्थः ।

सर्वशक्तियोगाद्देवादिवद्ब्रह्मणः सम्भवति विचित्रकार्यकरत्वमित्याशङ्क्याह -

देवादयो हीति ।

विज्ञायन्ते । मन्त्रार्थवादादिष्विति शेषः ।

कथं सा सर्वशक्तियुक्तापीत्यत्रापिना सूचितमर्थं स्फोरयति -

कथं चेति ।

‘तदुक्तम् ‘ इति सूत्रावयवेन परिहरति -

यदत्रेति ।

किं तदुक्तमित्यपेक्षायां न विलक्षणत्वाधिकरणादावुक्तं स्मारयति -

श्रुतीति ।

यत्तु कुलालादीनां कार्यकरणवतामेव मृदाद्यधिष्ठातृत्वोपलम्भाद्ब्रह्मणस्तद्रहितस्य नाधिष्ठातृत्वेन कारणत्वमिति, तदपि परिहृतमित्याह -

न चेति ।

न हि कार्यकरणविरहिणः सुषुप्तवदकार्यकरत्वं शक्यं नियन्तुं, समुत्थानसमये शरीराद्यभिमानशून्यस्य देहेन्द्रियाद्युपादानव्यापारतस्तच्छक्तिमत्तोपलब्ध्या दृष्टान्तस्य साध्यविकलत्वादिति भावः ।

यत्तु ब्रह्मणो मायाशक्तिमत्त्वं मुक्तवदशरीरत्वादयुक्तमिति, तदपि पुरस्तादेव परास्तमित्याह -

प्रतिषिद्धेति ।

परमार्थतो व्यवहारतो वा मायाशक्तिरमत्त्वाभावः साध्यते । नाद्यः, सिद्धसाधनत्वात् । न द्वितीयः, मायायाश्चिन्मात्रे प्रतीतिसिद्धत्वात् । न चाज्ञोऽहमिति प्रतीतिर्जीवमधिकरोति । तस्य ब्रह्मानतिरेकात्कल्पितस्य चाविद्यामयत्वेनाविद्याश्रयत्वायोगादिति भावः ।

किञ्च मायाविनां देहेन्द्रियवतां बाह्यं हेतुमनपेक्ष्य कार्यकरत्वदर्शनात् , कुलालादीनां च तथाविधानामेव बाह्यसाधनव्यपेक्षाणामर्थक्रियाकारित्वात् , तेषु दृष्टवैचित्र्यावष्टम्भादन्तरेणापि शरीरादिना ब्रह्मणि मायासम्बन्धसिद्धिरित्यभिसन्धाय प्रागुक्तानुमानद्वयस्यागमविरोधं दर्शयति -

तथा चेति ॥ ३१ ॥