ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
न प्रयोजनवत्त्वात् ॥ ३२ ॥
अन्यथा पुनश्चेतनकर्तृकत्वं जगत आक्षिपति खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हतिकुतः ? प्रयोजनवत्त्वात्प्रवृत्तीनाम्चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्टः, किमुत गुरुतरसंरम्भाम्भवति लोकप्रसिद्ध्यनुवादिनी श्रुतिः वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ. उ. २ । ४ । ५) इतिगुरुतरसंरम्भा चेयं प्रवृत्तिःयदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम्यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत, परितृप्तत्वं परमात्मनः श्रूयमाणं बाध्येतप्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात्अथ चेतनोऽपि सन् उन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टः, तथा परमात्मापि प्रवर्तिष्यते इत्युच्येततथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येततस्मादश्लिष्टा चेतनात्सृष्टिरिति ॥ ३२ ॥

पूर्वं श्रुत्यवष्टम्भेन सर्वशक्ति ब्रह्मेत्युक्तम् । सम्प्रति शक्तस्यापि प्रयोजनाभिसन्ध्यभावादकर्तृत्वमित्याक्षिपति -

न प्रयोजनवत्त्वादिति ।