परितृप्ताद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किं ब्रह्म विना फलेन न सृजत्यभ्रान्तचेतनत्वाद्विवक्षितपुरुषवदिति न्यायेन विरुध्यते न वेति पूर्ववदेव सन्देहे पूर्वपक्षसूत्रतात्पर्यमाह -
अन्यथेति ।
पादादिसङ्गतिफले पूर्ववदुन्नेये ।
सूत्राक्षराणि व्याकुर्वन्नञोऽर्थमाह -
न खल्विति ।
तत्र प्रश्नपूर्वकं हेतुमादाय व्याचष्टे -
कुत इति ।
भ्रान्तस्याबुद्धिपूर्वकारिणः स्वपरप्रयोजनानुपयोगिन्यपि प्रवृत्तिर्दृष्टेति विशिनष्टि -
बुद्धिपूर्वकारीति ।
लीलादौ फलाभावेऽपि प्रवृत्तिर्दृष्टेत्याशङ्क्य तत्रापि तात्कालिकमुद्देश्यफलाभावेऽपि फलमस्त्येवेति मत्वाह -
न मन्देति ।
या चेतनस्याभ्रान्तस्य प्रवृत्तिः सा फलाभिसन्धिपूर्विकेति व्याप्तिमुक्त्वा कैमुतिकन्यायमपिना सूचितं दर्शयति -
किमुतेति ।
लीलादेरल्पायाससाध्यत्वेऽपि फलवत्त्वदर्शनान्महायाससाध्यजगतः सृष्टिरफला न श्लिष्टेत्यर्थः ।
फलाभिसन्धिपूर्विका बुद्धिपूर्वकारिप्रवृत्तिरित्यत्र श्रुतिमुपन्यस्यति -
भवति चेति ।
प्रवृत्त्याभासत्वाज्जगद्विरचनायां न फलापेक्षेत्याशङ्क्याह -
गुरुतरेति ।
अस्तु तर्हि फलाभिसन्धिपूर्विकैवेयमपि प्रवृत्तिरित्याशङ्क्य स्वस्य परस्य वा फलमुद्देश्यमिति विकल्प्याद्ये दोषमाह -
यदीति ।
अस्मदादीनां गुरुतरसंरम्भापीयं प्रवृत्तिरीश्वरस्यानायाससाध्या न प्रयोजनपूर्विकेत्याशङ्क्य, ब्रह्म न जगत्कारणं, साक्षात्परम्परया वा स्वफलविकलत्वात् , तथाभूतलौकिकपुरुषवदित्याह -
प्रयोजनाभावे वेति ।
दृष्टान्तेन शङ्कयित्वा दूषयति -
अथेत्यादिना ।
बुद्ध्यपराधो विवेकवैधुर्यम् ।
नापि परप्रयोजनोपयोगिनी परस्येश्वरस्य प्रवृत्तिः, प्रागुत्पत्तेरनुग्राह्याभावादिति मत्त्वोपसंहरति -
तस्मादिति ॥ ३२ ॥