ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
सर्वधर्मोपपत्तेश्च ॥ ३७ ॥
चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः । इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति । यस्मादस्मिन्ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते ‘सर्वज्ञं सर्वशक्ति महामायं च ब्रह्म’ इति, तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति ॥ ३७ ॥

निर्गुणस्य ब्रह्मणो जगदुपादानत्ववादिसमन्वयो विषयः । स किं यन्निर्गुणं न तदुपादानं यथा गन्ध इति न्यायेन विरुध्यते न वेति पूर्ववदेव सन्देहे वृत्तमनूद्य सङ्गतिमाह -

चेतनमित्यादिना ।

निर्गुणस्य गन्धवदनुपादानत्वाद्ब्रह्मणः सगुणत्वे मृदादिवदुपादानत्वेन प्राप्ते, विवर्ताधिष्ठानत्वस्यात्रोपादानत्वात्तस्य न निर्गुणेऽपि जात्यादावनित्यत्वाद्यारोपवदविरोधाद्युक्तं निर्गुणस्यापि ब्रह्मणो जगदुपादानत्वमिति राद्धान्तमभिसन्धाय सूत्राक्षराणि व्याचष्टे -

यस्मादिति ।

पादादिसङ्गतिचतुष्ट्यं फलं च पूर्वोत्तरपक्षयोर्यथापूर्वमवधेयम् ।

यद्यपि लोके सर्वज्ञत्वं कस्यचित्कारणस्य धर्मो न दृश्यते, तथापि कुलालादौ मृदादिप्रेरकत्वदर्शनाद्ब्रह्मण्यपि नियन्तरि तेन भवितव्यं, तस्य सर्वप्रेरकत्वस्य श्रौतत्वादर्थादेव सर्वज्ञत्वसिद्धिरित्याह -

सर्वज्ञमिति ।

एवं ब्रह्मणि सर्वशक्तिमत्त्वमपि शक्यमुपपादयितुमिति मत्वाह -

सर्वशक्तीति ।

तेनोपादानत्वमुपपादित्तं सर्वज्ञत्वेन निमित्तत्वमिति भेदः ।

निर्गुणत्वादिप्रयुक्तसर्वानुपपत्तिशङ्कोपशान्तये विशिनष्टि -

महामायं चेति ।

एतेन ब्रह्मण्यनवच्छिन्नं मायाऽविद्यादिशब्दितमनिर्वाच्यमज्ञानं कारणत्वादिसर्वव्यवहारनिर्वाहकमस्तीत्युक्तम् ।

यस्मादित्यस्यापेक्षितं पूरयन्पादार्थमुपसंहरति -

तस्मादिति ।

स्मृतिन्यायविरोधः समन्वयस्य नास्तीति सिद्धमिति वक्तुमितिशब्दः ॥ ३७ ॥