ब्रह्मणि कारणत्वानुगुणेषु सर्वज्ञत्वादिषूक्तेषु प्रधानेऽपि तदुपपत्तिमाशङ्क्योक्तम् -
रचनानुपपत्तेश्चेति ।
पूर्वपादेन समन्वये वादिभिरुत्प्रेक्षिता विलक्षणत्वादयो दोषा निरस्ताः । सम्प्रति परपक्षाणां भ्रान्तिमूलत्वं वक्तुं पादान्तरमारभ्यते ।