सूत्रे शङ्काभागं विभजते -
स्यादेतदिति ।
क्षीरस्यापि चेतनाधिष्ठितस्यैव प्रवृत्तिरित्याशङ्क्य विशिनष्टि -
स्वभावेनेति ।
तत्प्रवृत्तेरर्थवत्त्वमाह -
वत्सेति ।
केवलचेतनस्याप्रवृत्तिरित्यत्र क्षीरे व्यभिचारमुक्त्वा जलेऽपि व्यभिचारमाह -
यथा चेति ।
दार्ष्टान्तिकमाह -
एवमिति ।
पुरुषार्थो भोगश्चापवर्गश्च ।
तत्रापीति परिहारमवतार्य व्याचष्टे -
नैतदिति ।
कथमनुमानमित्युक्ते तत्प्रकारं सूचयति -
उभयवादीति ।
विमता प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, अचेतनप्रवृत्तित्वात् , सम्प्रतिपन्नप्रवृत्तिवदित्यनुमानात्पयोम्बुनोरपि पक्षान्तर्भावान्न व्यभिचाराशङ्केत्यर्थः ।
किञ्च शास्त्रेण तत्रापि चेतनाधिष्ठितत्वस्य सिद्धत्वेन सपक्षत्वान्न व्यभिचार इत्याह -
शास्त्रं चेति ।
तस्यार्थं सङ्क्षिपति -
समस्तस्येति ।
शास्त्रानुमानाभ्यां सिद्धमर्थमुपसंहरति -
तस्मादिति ।
साध्यपक्षनिक्षिप्तत्वं साध्यवति पक्षे प्रविष्टत्वमेव । तच्च सपक्षनिक्षिप्तत्वस्याप्युपलक्षणम् । अनुपन्यासो न व्यभिचारभूमिरित्यर्थः ।
इतश्च क्षीरदृष्टान्तेऽपि व्यभिचारो नास्तीत्याह -
चेतनायाश्चेति ।
केवलाचेतनस्य पयसो न प्रवृत्तिरित्यत्र हेत्वन्तरमाह -
वत्सचोषणेनेति ।
अम्बुदृष्टान्तेऽपि सर्वथानपेक्षत्वं चेतनानपेक्षत्वं वा प्रवृत्ताविति विकल्प्याद्यं दूषयति -
न चेति ।
द्वितीयं निरस्यति -
चेतनेति ।
उपदर्शितम् । शास्त्रेणेति शेषः ।
सूत्रकारस्य पूर्वापरविरोधमाशङ्क्य परिहरति -
उपसंहारेति ।
लोकदृष्ट्या शास्त्रदृष्टया चेति सूत्रद्वयमविरुद्धमित्यर्थः ॥ ३ ॥