ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥
परस्परविरुद्धश्चायं साङ्ख्यानामभ्युपगमः — क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति, क्वचिदेकादश; तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति, क्वचिदहंकारात्; तथा क्वचित्त्रीण्यन्तःकरणानि वर्णयन्ति, क्वचिदेकमिति । प्रसिद्ध एव तु श्रुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या । तस्मादप्यसमञ्जसं साङ्ख्यानां दर्शनमिति ॥

सूत्रं विभजते -

परस्परेति ।

विरोधमुदाहरति -

क्वचिदिति ।

त्वङ्भात्रमेव धीन्द्रियमनेकरूपादिधीसमर्थं कर्मेन्द्रियाणि पञ्च मनश्चेति सप्तेन्द्रियाणीत्यर्थः ।

पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाण्येकादशं मन इत्येकादशेन्द्रियाणीत्याह -

क्वचिदिति ।

प्रकारान्तरेण विप्रतिषेधमाह -

तथेति ।

तन्मात्रा भूतसूक्ष्माणि । बुद्धिरहङ्कारो मन इति त्रीणि । एकमिति बुद्धिरेवोच्यते । मिथोविरोधसमाप्तावितिशब्दः ।

विप्रतिषेधशब्दस्यार्थान्तरमाह -

प्रसिद्ध इति ।

साङ्ख्यवादस्योक्तनीत्या भ्रान्तिमूलत्वात्तदीयन्यायविरोधो न समन्वयस्येत्युपसंहरति -

तस्मादिति ।