साङ्ख्यसमन्वयस्यासामञ्जस्यादुपेक्षणीयत्वे प्रतिबन्द्या साङ्ख्यश्चोदयति -
अत्रेति ।
चोद्यं विवृणोति -
नन्विति ।
सिद्धान्तस्यासामञ्जस्ये हेतुमाह -
तप्येति ।
हेतुं साधयति -
एकं हीति ।
प्रपञ्चस्य ब्रह्मातिरेकात्कुतस्तदैक्यं, तत्राह -
सर्वेति ।
तदपि कथं, तत्राह -
सर्वस्येति ।
न च तावेकस्य युक्तौ । परसमवेतक्रियाफलशालि हि कर्म । ततस्तापकात्तप्यस्य भेदः, अन्यथा तद्भावायोगात्तदयोगे च व्यवहारे विरोधादयुक्तं त्वन्मतमित्यर्थः ।
एकस्यैवात्मनश्चेतनाचेतनात्मत्वात्तप्यतापकव्यवहारसिद्धौ नासामञ्जस्यमित्याशङ्क्याह -
यदीति ।
किं तयोरात्मरूपत्वं तद्धर्मत्वं वेति विकल्प्याद्यं प्रत्याह -
स इति ।
द्वितीयेऽपि तयोः स्वरूपान्तर्भावो बहिर्भावो वा ? प्रथमे प्रागुक्तदोषानुषक्तिं दृष्टान्तेन स्पष्टयति -
न हीति ।
औष्ण्यप्रकाशयोः स्वरूपत्वात्ताभ्यां दीपस्यानिर्मोक्षेऽपि तप्यतापकयोर्वीचीतरङ्गादिवद्धर्म्यनन्तर्भावाद्धर्मिणस्ताभ्यां पृथक्त्वान्नानिर्मुक्तिरिति पक्षान्तरमाशङ्क्याह -
योऽपीति ।
वीचीतरङ्गादीनां जलधर्मत्वेऽपि तेभ्यो जलं पृथगिष्टं तथा तप्यतापकयोरात्मधर्मत्वेऽपि ताभ्यामात्मा पृथगिति योऽपि मोक्षसम्भावनार्थमुपन्यासः, तत्रापि जलात्मनो वीच्यादिभिरनिर्मोक्षस्तेषां तत्सम्बन्धित्वेनाविर्भावादिना सदा सत्त्वात् , तथाऽऽत्मन्यपि तप्यतापकयोरुद्भवादिना नित्यत्वादात्मनस्ताभ्यामनिर्मोक्षान्मोक्षशास्त्रानर्थक्यमित्यर्थः ।
कर्मकर्तृत्वात्तप्यतापकयोर्भिन्नत्ववत्प्रसिद्धत्वादपि तयोर्भिन्नत्वमित्याह -
प्रसिद्धश्चेति ।
लौकिकीं प्रसिद्धिं प्रकटयति -
तथा हीति ।
अर्थी तप्यस्तापकश्चार्थस्तयोर्भेदे तावदनुभवमाह -
अर्थीति ।
तत्रैव युक्तिमाह -
यदीति ।
तयोर्भेदानुपगमेऽर्थस्यार्थिमात्रत्वमर्थिनो वार्थमात्रत्वम् । नाद्य इत्याह -
यस्येति ।
नित्यप्राप्तेऽर्थे नार्थितेत्यत्र दृष्टान्तमाह -
यथेति ।
दार्ष्टान्तिकं विवक्षन्नाह -
अप्राप्ते हीति ।
स्वरूपत्वेन प्राप्तेऽर्थे नार्थिनोऽर्थित्वमिति शेषः । एवमर्थस्यार्थिमात्रत्वं नेत्युपसंहर्तुमितिशब्दः ।
अर्थिनोऽर्थमात्रत्वं प्रत्याह -
तथेति ।
अर्थिनोऽर्थानतिरेके सतीति यावत् । अर्थिवदिति दृष्टान्तार्थोऽपिशब्दः ।
इष्टापत्तिमाशङ्क्याह -
न चेति ।
अर्थस्य स्वार्थत्वे शेषत्वधीविरोधः स्यादित्यर्थः ।
इतश्चार्थार्थिनोर्भिन्नतेत्याह -
सम्बन्धीति ।
तथापि कथं भिन्नत्वं, तत्राह -
द्वयोश्चेति ।
अर्थार्थिभेदमनुभवयुक्तिसिद्धं निगमयति -
तस्मादिति ।
अर्थार्थिनोरुक्तन्यायमनर्थानर्थिनोरपि सञ्चारयति -
तथेति ।
अर्थार्थिवत्तावपि भिन्नावेवेति सम्बन्धः ।
अर्थानर्थयोर्भेदमुदाहरति -
अर्थिन इति ।
तर्हि कथमेकस्यैव विरुद्धधर्मद्वयं, तत्राह -
ताभ्यामिति ।
तप्यतापकयोर्भिन्नत्वप्रसिद्धिमुपक्रम्यान्यदेवोक्तम् । न चानर्थानर्थिनोस्तप्यतापकत्वेऽपि तदर्थार्थिनोरस्तीत्याशङ्क्याह -
तत्रेति ।
तप्यतापकयोर्भिन्नत्वमुपपाद्य विपक्षे मोक्षासिद्धिं पूर्वोक्तामुपसंहरति -
इति तयोरिति ।
त्वन्मतेऽपि भिन्नयोरेव तप्यतापकयोर्वीचीतरङ्गादिवदुद्भवाभिभवाभ्यां नित्यत्वात्कुतो मुक्तिरित्याशङ्क्य - पूर्वपक्षी स्वपक्षे मोक्षसिद्धिमाह -
जात्यन्तरेति ।
नन्वविवेकस्तप्यतापकयोः संयोगे हेतुस्तस्य विवेकान्निवृत्तिरिति मते नित्यादागन्तुकाद्वा ततस्तन्निवृत्तिः । आद्ये सदामुक्ते संसाराभावः । द्वितीये त्वागन्तुकस्य विवेकस्यानाधेयातिशये पुंस्यसम्भवः । नच सत्त्वस्यैवासौ, तस्यैव सम्यग्धिया मोक्षो बन्धश्च तदभावादिति पुंसो द्वयाभावापातात् । मैवम् । बुद्धिसत्त्वस्थावपि बन्धमोक्षौ योद्धृगताविव जयपराजयौ स्वामिनि पुंस्युपचरितौ । तस्य बुद्धिसत्त्वाविभागापत्त्या तत्फलभोक्तृत्वादिति मत्वाह -
स्यादपीति ।