ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥
अत्रोच्यते — न, एकत्वादेव तप्यतापकभावानुपपत्तेः — भवेदेष दोषः, यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम् । न त्वेतदस्ति, एकत्वादेव; न ह्यग्निरेकः सन्स्वमात्मानं दहति, प्रकाशयति वा, सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च । किमु कूटस्थे ब्रह्मण्येकस्मिंस्तप्यतापकभावः सम्भवेत् । क्व पुनरयं तप्यतापकभावः स्यादिति ? उच्यते — किं न पश्यसि — कर्मभूतो जीवद्देहस्तप्यः, तापकः सवितेति ? ननु तप्तिर्नाम दुःखम्; सा चेतयितुः; नाचेतनस्य देहस्य । यदि हि देहस्यैव तप्तिः स्यात् , सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति । उच्यते — देहाभावे हि केवलस्य चेतनस्य तप्तिर्न दृष्टा । न च त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते । नापि देहचेतनयोः संहतत्वम् , अशुद्ध्यादिदोषप्रसङ्गात् । न च तप्तेरेव तप्तिमभ्युपगच्छसि । कथं तवापि तप्यतापकभावः ? सत्त्वं तप्यम् , तापकं रजः — इति चेत् , न । ताभ्यां चेतनस्य संहतत्वानुपपत्तेः । सत्त्वानुरोधित्वाच्चेतनोऽपि तप्यत इवेति चेत्; परमार्थतस्तर्हि नैव तप्यत इत्यापतति इवशब्दप्रयोगात् । न चेत्तप्यते नेवशब्दो दोषाय । न हि — डुण्डुभः सर्प इव इत्येतावता सविषो भवति, सर्पो वा डुण्डुभ इव इत्येतावता निर्विषो भवति । अतश्चाविद्याकृतोऽयं तप्यतापकभावः, न पारमार्थिकः — इत्यभ्युपगन्तव्यमिति; नैवं सति ममापि किञ्चिद्दुष्यति । अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि, तवैव सुतरामनिर्मोक्षः प्रसज्येत, नित्यत्वाभ्युपगमाच्च तापकस्य । तप्यतापकशक्त्योर्नित्यत्वेऽपि सनिमित्तसंयोगापेक्षत्वात्तप्तेः, संयोगनिमित्तादर्शननिवृत्तौ आत्यन्तिकः संयोगोपरमः, ततश्चात्यन्तिको मोक्ष उपपन्नः — इति चेत् , न । अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् । गुणानां चोद्भवाभिभवयोरनियतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्साङ्ख्यस्यैवानिर्मोक्षोऽपरिहार्यः स्यात् । औपनिषदस्य तु आत्मैकत्वाभ्युपगमात् , एकस्य च विषयविषयिभावानुपपत्तेः, विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणात् , अनिर्मोक्षशङ्का स्वप्नेऽपि नोपजायते । व्यवहारे तु — यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव सः — इति न चोदयितव्यः परिहर्तव्यो वा भवति ॥१०॥

अनिर्मोक्षप्रसक्तेरयुक्तमौपनिषदं मतमिति प्राप्तमनूद्य समाधिसत्त्वं सूचयति -

अत्रेति ।

वस्तुत्वं तप्यतापकयोरुपेत्यानिर्मोक्षो विवक्ष्यते भ्रान्तित्वं वेति विकल्प्याद्य निराह -

नेत्यादिना ।

तदेव प्रपञ्चयति -

भवेदिति ।

विषयविषयिभावं तात्त्विकमिति शेषः ।

ऐक्ये तात्त्विको विषयविषयिभावो नेत्यत्र दृष्टान्तमाह -

नहीति ।

कैमुतिकन्यायार्थं सत्यपीत्युक्तम् । किमु कूटस्थे ब्रह्मणीत्यत्राक्षेपार्थे किंशब्दः ।

द्वितीयमवलम्बयितुं शङ्कयति -

क्वेति ।

बाह्यस्यान्तरस्य वाश्रयस्तप्यतापकत्वस्य पृच्छ्यते । प्रथमं प्रत्याह -

उच्यत इति ।

द्वितीयमादाय शङ्कते -

नन्विति ।

सापि लिङ्गदेहस्यैव स्यादित्याशङक्याह -

यदीति ।

कल्पितात्मत्वलिङ्गगामित्वेनान्तरस्य तस्य भ्रान्तिमात्रत्वमभ्युपेतमित्याह -

उच्यत इति ।

यत्तु लिङ्गस्य नाशित्वात्तद्गततप्यतापकत्वस्य स्वयमेव नाशाद्धेत्वनुष्ठानानर्थक्यमिति । तन्न । लिङ्गस्य यावदात्मभावित्वेनामुक्तेरवस्थानादित्याशयेनाह -

देहेति ।

किञ्च साङ्ख्यस्यापि तप्यतापकत्वमाविद्यं पारिशेष्यसिद्धम् । तप्तिर्हि तन्मते केवलस्य वा चेतनस्य संहतस्य वा तप्तेर्वा सत्त्वस्य वा । नाद्य इत्याह -

न चेति ।

न द्वितीय इत्याह -

नापीति ।

न तृतीय इत्याह -

न चेति ।

नच केवलस्य देहस्यैव तप्तिः ‘नाचेतनस्य देहस्य’ इत्युक्तत्वादित्याक्षिपति -

कथमिति ।

चतुर्थं शङ्कते -

सत्त्वमिति ।

तयोस्तप्यतापकत्वे तन्निवृत्तये हेत्वनुष्ठानं पुंसो न स्यादित्याह -

नेति ।

सत्त्वरजोभ्यामविवेकात्तस्यापि तप्तिः स्यादित्याशङ्क्याह -

ताभ्यामिति ।

आत्मनस्तप्ते सत्त्वे प्रतिबिम्बितत्वाद्युक्ता तप्तिरिति शङ्कते -

सत्त्वेति ।

किमिवशब्दस्याभासोऽर्थः सादृश्यं वा । प्रथमं प्रत्याह -

परमार्थत इति ।

क्वचिदिवशब्दस्य सादृश्येऽपि प्रयोगादिहापि तथेति द्वितीयं शङ्कित्वाह -

न चेदिति ।

चेतनस्य तप्यत्वं कल्पितमकल्पितं वोपेत्येवशब्दः सादृश्ये प्रयुक्तः । नाद्य, वस्तुतोऽतप्यत्वे सादृश्यस्याकिञ्चित्करत्वादित्यर्थः ।

कथमिवशब्दस्योक्तसादृश्यस्याकिञ्चित्करत्वं, तप्यमानसादृश्ये तप्यमानत्वयोगात् , तत्राह -

नहीति ।

पारिशेष्यं निगमयति -

अतश्चेति ।

परमते तप्यतापकत्वस्याविद्यत्वे किं ते जातं, तदाह -

नैवमिति ।

अनिर्वाच्यत्वेनाविद्यत्वं तप्यत्वस्य मया नेष्टमिति कल्पान्तरमाह -

अथेति

तप्तिक्रियायास्तत्सम्बन्धस्य च वस्तुत्वाज्ज्ञानादनिवृत्तेर्न मुक्तिरित्याह -

तवैवेति ।

सुतरामित्युक्तमतिशयमाह -

नित्यत्वेति ।

प्रधानं तापकम् ।

साङ्ख्यः स्वपक्षे मोक्षसिद्धिं शङ्कते -

तप्येति ।

निमित्तेनादर्शनेन सह वर्तत इति सनिमित्तः प्रकृतिपुरुषयोगस्तदपेक्षत्वादात्मनि तप्तेः, निमित्तनिवृत्त्या नैमित्तिकनिवृत्तौ शक्तिनित्यत्वेऽपि सर्वात्मना तापक्षयलक्षणो मोक्षः सिध्यतीत्यर्थः ।

अदर्शनस्याभावस्य नित्यत्वादनिवृत्तेस्तत्त्वान्तरेषु चानन्तर्भावात्तमस्यन्तर्भावमभ्युपेत्य प्रत्याह -

नेति ।

उद्भूतेन तमसा तप्यतापकयोः सम्बन्धोपपत्तेस्तत्त्वधिया तमसोऽभिभवे सम्बन्धाभावाद्बन्धध्वस्तिरित्याशङ्क्याह -

गुणानां चेति ।

परपक्षे मोक्षासिद्धिं प्रसाध्य स्वपक्षे तदुपपत्तिमाह -

औपनिषदस्येति ।

अनिर्मोक्षाशङ्का नेति सम्बन्धः ।

सा किं हेत्वभावाद्वा तप्यतापकयोः स्वाभाविकत्वाद्वा । नाद्य इत्याह -

आत्मेति ।

न द्वितीय इत्याह -

एकस्येति ।

तप्यतापकयोरस्वाभाविकत्वेऽपि विकारोपाधिकयोरुद्भवादिना नित्यत्वादनिर्मोक्षाशङ्केत्याशङ्क्याह -

विकारेति ।

आत्मैक्योपगमे कथं दृश्यमानं तप्यतापकत्वं, न खल्वेकस्मिन्नेवार्थार्थित्वादि युक्तमित्याशङ्क्य काल्पनिके व्यावहारिके तस्मिन्नानुपपत्तिरित्याह -

व्यवहारे त्विति ॥१०॥