ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥
प्रधानकारणवादो निराकृतः, परमाणुकारणवाद इदानीं निराकर्तव्यः । तत्रादौ तावत् — योऽणुवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते, स प्रतिसमाधीयते । तत्रायं वैशेषिकाणामभ्युपगमः कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते, शुक्लेभ्यस्तन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात् , तद्विपर्ययादर्शनाच्च । तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वेऽभ्युपगम्यमाने, कार्येऽपि जगति चैतन्यं समवेयात् । तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणं भवितुमर्हतीति । इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति —

वृत्तं कीर्तयति –

प्रधानेति ।

तस्य भ्रान्तिमूलत्वात् तदीययुक्तिविरोधः समन्वयस्य नास्तीत्युक्तमित्यर्थः ।

वैशेषिकाधिकरणस्य तात्पर्यमाह -

परमाण्विति ।

तस्य भ्रान्तिमूलत्वोक्त्या तदीययुक्तिविरोधो निरस्यः समन्वयस्येत्यर्थः ।

तन्निराकरणस्यास्मिन्नधिकरणेऽभावात्किमनेनेत्याशङ्क्याह -

तत्रेति ।

स्वपक्षदोषनिरासस्य स्मृतिपादसम्बन्धेऽपि प्रधानगुणानन्वयान्न चेज्जगत्तत्प्रकृतिकं तर्हि ब्रह्मविशेषगुणानन्वयान्न तत्प्रकृतिकमपि स्यादित्यवान्तरसङ्गतिलाभादिहेदमधिकरणमिति भावः ।

स्वपक्षदोषसमाधिद्वारा समन्वयदृढीकरणादध्यायादिसङ्गतयः । तत्र चेतनाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । तस्य वैशेषिकगुणारम्भानुमानेन विरोधोऽस्त्युत नेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वपक्षमाह -

तत्रेति ।

पूर्वपक्षे वैशेषिकानुमानविरोधाद्ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तदविरोधात्तत्सिद्धिरिति फलभेदः ।

तदीयानुमानं ब्रह्मकारणनिराकरणपरं दर्शयितुं तदभ्युपगममभिनयति -

कारणेति ।

समवायिकारणार्थं कारणपदमिति वक्तुं द्रव्यपदम् । गुणशब्दोऽसाधारणगुणार्थः ।

साधारणगुणानामारम्भकत्वेऽपि समवायिकारणस्थत्वानियमात् । कार्यस्य द्रव्यविशेषणं कार्यान्तरे तदनारम्भात् । गुणाश्च गुणान्तरमित्यत्रान्वयव्यतिरेकौ दर्शयति -

शुक्लेभ्य इति ।

ब्रह्मचैतन्यं न द्रव्यसमवायिकारणविशेषगुणः, समानजातीयविशेषगुणानारम्भकत्वात् , संयोगवदित्यभिप्रेत्याह -

तस्मादिति ।

नच चैतन्यस्य स्वरूपत्वेन गुणत्वासिद्धेः सिद्धसाध्यता, ज्ञानीतिवदहं ज्ञानमित्यदृष्टेस्तद्गुणत्वस्पाष्ट्यादिति भावः ।

घटः स्फुरतीति सामानाधिकरण्याद्धटादेस्तगद्गुणत्वसिद्धेरसिद्धिरित्याशङ्क्य जनयितृव्यापारविषयतया घटो जायत इतिवत्प्रकाशयितृव्यापारकर्मतया सामानाधिकरण्यं न तद्गुणत्वादित्यसिद्धि समुद्धरति -

तदिति ।

ब्रह्म न द्रव्योपादानं, तुल्यजातीयारम्भकविशेषगुणानाधारत्वात् , दिगादिवदिति भावः ।

स्मृतिपादे निरस्तमनुमानं किमिति पुनः शङ्कितमित्याशङ्क्य लौकिकपदार्थेषु तत्रोक्तेऽपि व्यभिचारे परप्रक्रियासिद्धेष्वेव पारिमाण्डल्यादिषु तमिदानीं दर्शयतीति विशेषमाह -

इममिति ।