ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥
एषा तेषां प्रक्रिया — परमाणवः किल कञ्चित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणाश्च तिष्ठन्ति । ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते, कारणगुणाश्च कार्ये गुणान्तरम् । यदा द्वौ परमाणू द्व्यणुकमारभेते, तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयो द्व्यणुके शुक्लादीनपरानारभन्ते । परमाणुगुणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभते, द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् । अणुत्वह्रस्वत्वे हि द्व्यणुकवर्तिनी परिमाणे वर्णयन्ति । यदापि द्वे द्व्यणुके चतुरणुकमारभेते, तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् । अणुत्वह्रस्वत्वे तु द्व्यणुकसमवायिनी अपि नैवारभेते, चतुरणुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात् । यदापि बहवः परमाणवः, बहूनि वा द्व्यणुकानि, द्व्यणुकसहितो वा परमाणुः कार्यमारभते, तदापि समानैषा योजना । तदेवं यथा परमाणोः परिमण्डलात्सतोऽणु ह्रस्वं च द्व्यणुकं जायते, महद्दीर्घं च त्र्यणुकादि, न परिमण्डलम्; यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते, नाणु, नो ह्रस्वम्; एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्जनिष्यते — इत्यभ्युपगमे किं तव च्छिन्नम् ॥

यथा च परिमण्डलाभ्यां परमाणुभ्यां द्व्यणुकमपरिमण्डलमुत्पद्यते, तथा चेतनाद्ब्रह्मणो जगदचेतनं स्यादिति सूत्रार्थः । इममर्थं स्फुटीकर्तुं परकीयप्रक्रियामनुवदति -

एषेति ।

तत्र प्रलयावस्थामुपन्यस्यति -

परमाणव इति ।

चतुर्विधेषु तेषु प्रामाणिकसंमतिं सूचयति -

किलेति ।

लयहेतुकर्मोद्रेकावस्था कञ्चित्कालमित्युक्ता । तत्र सर्वकार्यलयेऽपि पाकजपरमाणुगुणानामवस्थान मास्थायोक्तम् -

रूपादिमन्त इति ।

पार्थिवपरमाणूनां चतुर्गुणत्वमाप्यपरमाणूनां त्रिगुणत्वं तैजसपरमाणूनां द्विगुणत्वं वायवीयपरमाणूनामेकगुणतेति विभागमाह -

यथेति ।

परमाणुमात्रवृत्तिपरिमाणं दर्शयति -

पारिमाण्डल्येति ।

तेषामारम्भकक्रममाह -

ते च पश्चादिति ।

सर्गहेतुकर्मोद्भवावस्था पश्चादित्युक्ता । समवायिकारणं परमाणूनुक्त्वा निमित्तकारणमाह -

अदृष्टादीति ।

आदिशब्देनेश्वरप्रयत्नाद्युच्यते ।

असमवायिकारणमाह -

संयोगेति ।

अदृष्टवत्क्षेत्रज्ञसंयोगात्परमाणौ कर्म ततोऽण्वन्तरसंयोगाद्द्व्यणुकमारभ्यते । नच परमाणवो बहवः संयुक्ताः सहसा कार्यारम्भकाः परमाणुत्वे सति बहुत्वाद्धटोपगृहीतपरमाणुवत् । नच तेषामपि घटारम्भकतया साध्यवैकल्यं, घटभङ्गे कपालादीनामनारब्धत्वादणूनां चातीन्द्रियत्वात्सर्वानुपलब्धिप्रसङ्गात् । नच द्वावपि परमाणू कार्यानारम्भकौ परमाणुत्वे सति द्वित्वाद्धटोपगृहीतपरमाणुद्वयवदिति युक्तं साध्यवैकल्यात् । द्व्यणुकानि च त्रीणि सम्भूय त्र्यणुकमुत्पादयन्ति तदनन्तरमारम्भकसङ्ख्यानियमो नेति भावः ।

द्रव्याणि द्रव्यान्तरमारभन्त इति सूत्रार्थमुक्त्वा गुणाश्च गुणान्तरमिति सूत्रार्थमाह -

कारणेति ।

कतिपयकारणगुणानामारम्भकत्वं सर्वेषां वेति वीक्षायामाद्यं व्युत्पादयति -

यदेति ।

कल्पान्तरं दूषयति -

परमाण्विति ।

अभ्युपगममेव साधयति -

अणुत्वेति ।

इतश्च कतिपयगुणानामेवारम्भकत्वमित्याह -

यदापीति ।

द्व्यणुकेऽधिकरणे द्विशब्दस्य भावप्रधानत्वाद्वे द्वित्वे ते स्वाश्रयाणां चतुर्णां द्व्यणुकानां चतुरणुकारम्भकत्वात्तदारम्भके विवेक्ष्येते । न हि द्वित्वद्वयं हित्वा तदाथाराणां द्व्यणुकानामारम्भकत्वम् । अथवाऽऽणुकमिति द्व्यणुकमुक्तं ते द्वित्वावच्छिन्ने यदा द्वित्वसङ्ख्ययावच्छिद्येते तदा द्वौ घटावितिवद्द्वे द्व्यणुके इ्त्युक्ते द्व्यणुकचतुष्टयं सम्पद्यते । एवं चतुर्णां द्व्यणुकानां चतुरणुकारम्भकत्वे स्थिते तद्गतानां गुणानां तुल्यजातीयारम्भकतेत्यर्थः ।

सर्वगुणानामनारम्भकत्वे हेत्वन्तरमाह -

अणुत्वेति ।

व्यवस्थितां वैशेषिकप्रक्रियां प्रदर्श्याव्यवस्थितां दर्शयति -

यदापीति ।

कारणगुणानां केषाञ्चिदारम्भकत्वं न सर्वेषामिति सर्वेषां तुल्यमित्याह -

तदापीति ।

व्यवस्थितामव्यवस्थितां च परप्रक्रियामुक्त्वा सूत्रं व्याकुर्वन्व्यभिचारमाह -

तदेवमिति ।

तत्तत्र तस्यां प्रक्रियायामेवमुक्तप्रकारेणेति यावत् ।

अव्यवस्थितप्रक्रियामाश्रित्योक्तम् -

महदित्यादि ।

वाशब्दोऽनुक्ताणुह्रस्वकार्यसमुच्चयार्थ इति व्याचष्टे -

यथा वेति ।

नाणु जायते नापि ह्रस्वं जायते त्र्यणुकादिति योजना ।

पारिमाण्डल्यादीनां तुल्यजातीयानारम्भकत्वे सिद्धे दार्ष्टान्तिकमाह -

एवमिति ।