दृष्टान्तवैषम्यं चोदयति -
अथेति ।
जगत्यपि तुल्यं विरोधिगुणाक्रान्तत्वमित्याशङ्क्याह -
नत्विति ।
अचेतनायाश्चेतनाविरोधिन्या जगति भावाच्चेतनायाः सजतीयानानरम्भकतेत्याशङ्क्याह -
न हीति ।
विशेषगुणत्वाच्चेतनायाः साधारण्यात्पारिमाण्डल्यादेर्वैषम्यं मत्वा तत्फलमाह -
तस्मादिति ।
ज्ञानवानस्मीति प्रत्ययस्य बुद्धिवृत्त्युपधानाधीनत्वाच्चेतनस्य स्वरूपत्वेन गुणत्वासिद्दौ विशेषगुणत्वस्य दूरापेतत्वं मत्वा विवक्षितांशे दृष्टन्तसिद्धिरित्याह -
मैवमिति ।
न स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं किन्तु विरोधिगुणसंनिपातात् । चैतन्यस्य तु तदभावादारम्भकतेत्याशङ्क्याह -
न चेति ।
तत्र हेतुः -
परिमाणान्तरस्येति ।
कथमन्यहेतुत्वं, तत्राप्तोक्तिमुदाहरति -
कारणेति ।
बहुभिर्द्व्यणयकैरारब्धे त्र्यणुकादौ यन्महत्त्वं तस्य द्व्यणुकगतं बहुत्वमसमवायिकारणं कार्यद्रव्यं समवायिकारणम् । यत्पुनरयःपिण्डेन पञ्चाशत्पलेनारब्धं कार्यं तावत्पलमुपलभ्यते तन्महत्त्वे पिण्डस्य प्रचयः संयोगविशेषो हेतुः । महद्भिरवयवैरारब्धे पटे यन्महत्त्वं तस्य कारणमहत्त्वं हेतुरिति त्रिभ्यः कारणेभ्यो महत्त्वमित्यर्थः ।
यत्कारणबहुत्वादिभ्यो महत्त्वं त्र्यणुकादौ जातं ततो विपरीतं द्व्यणुकगतमणुत्वमीश्वरापेक्षाबुद्धिजन्यपरमाणुनिष्ठद्वित्वासमवायिकारणादुत्पद्यते, तदाह -
तदिति ।
द्वित्वमहत्त्वबहुत्वप्रचयेभ्यो यथासम्भवं ह्रस्वत्वदीर्घत्वयोरुत्पत्तिरित्याह -
एतेनेति ।
समस्तेन प्रकारेणेति यावत् ।
ननु पारिमाण्डल्यादीनि संयोगादिभिर्व्यवहितानि कार्यद्रव्ये समानजातीयानारम्भकाणि । प्रचयादयस्तु कारणस्थास्तन्निष्ठकार्यद्रव्यस्य संनिहितत्वात्तत्र महत्त्वाद्यारम्भकास्ततो न स्वभावादनारम्भकत्वं पारिमाण्डल्यादीनामिति, तत्राह -
नचेति ।
गुणो गुणिनि समवेतो व्याप्योऽव्याप्यो वा सर्वथा कारणस्थात्वं गुणानां कार्यरम्भे निमित्तम् । नच निरवयवाणुगुणानां संनिधिरसंनिधिर्वाऽऽरम्भोपयोगी सम्भवतीति भावः ।
परिशेषसिद्धमर्थमाह -
तस्मादिति ।
दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमुपसंहरति -
तथेति ।