किञ्च कारणगुणाः सजातीयानामेवारम्भकाः किंवा विजतीयानामपीति विकल्प्याद्यं प्रत्याह -
संयोगाच्चेति ।
चेतनं ब्रह्म द्रव्यं जगतोऽचेतनस्य न समवायिकारणमिति प्रकृते चेतनमप्यचेतनोपादानं दृष्टमिति दृष्टान्ते वक्तव्ये संयोगगुणोदाहरणमयुक्तमिति शङ्कते -
द्रव्य इति ।
अद्रव्यादपि संयोगाद्यथा द्रव्यं जायते तथा चेतनादचेतनं स्यादित्येतावन्मात्रमिष्टमित्याह -
नेति ।
दृष्टान्तदार्ष्टान्तिकयोः सर्वथा साम्ये नास्ति मानमित्याह -
नचेति ।
न केवलमयमस्माकमनियमो भवतामपीत्याह -
सूत्रेति ।
सूत्रं व्याचष्टे -
यथेति ।
कथमिदं सूत्रं नियमभङ्गोपयोगीत्याशङ्क्याह -
एतदिति ।
कारणस्थविशेषगुणानां कार्ये तुल्यारम्भकत्वं न गुणमात्रस्येत्याशङ्क्याह -
दृश्यते त्विति ।
तन्तुगतनीलपीतादिरूपाणां विशेषगुणानामपि तत्कार्ये पटे विजातीयचित्ररूपारम्भकत्वाभ्युपगमान्नायमपि नियम इति भावः ।
तर्हि गतार्थत्वादिदमधिकरणमनारभ्यमिति शङ्कते -
नन्विति ।
निराकार्यभेदान्न पौनरुक्त्यमित्याह -
नेतीति ।
तथापि शिष्टापरिग्रहाधिकरणेन पुनरुक्तिरिति शङ्कते -
नन्विति ।
तत्र कारणं कार्यादूनपरिमाणमिति नियमो निरस्तः, अत्र तु कारणविशेषगुणस्य कार्ये तुल्यारम्भनियमो निरस्यत इति सत्यपि पुनरुक्तिपरिहारे रीतिसाम्यकृतं जामित्वमुपेत्याह -
सत्यमिति ।
तस्यैवेति ।
अतिदेशस्येति यावत् । वैशेषिकपरीक्षारम्भस्तदीयराद्वान्तस्य भ्रान्तिमूलत्वसाधनप्रकमः । तत्प्रक्रिया वैशेषिकप्रक्रिया पूर्वोक्ता तस्यामनुगतं निदर्शनं परकीयहेतुव्यभिचारोदाहरणं तेनेत्यर्थः ॥ ११ ॥