यथा च परिमण्डलाभ्यां परमाणुभ्यां द्व्यणुकमपरिमण्डलमुत्पद्यते, तथा चेतनाद्ब्रह्मणो जगदचेतनं स्यादिति सूत्रार्थः । इममर्थं स्फुटीकर्तुं परकीयप्रक्रियामनुवदति -
एषेति ।
तत्र प्रलयावस्थामुपन्यस्यति -
परमाणव इति ।
चतुर्विधेषु तेषु प्रामाणिकसंमतिं सूचयति -
किलेति ।
लयहेतुकर्मोद्रेकावस्था कञ्चित्कालमित्युक्ता । तत्र सर्वकार्यलयेऽपि पाकजपरमाणुगुणानामवस्थान मास्थायोक्तम् -
रूपादिमन्त इति ।
पार्थिवपरमाणूनां चतुर्गुणत्वमाप्यपरमाणूनां त्रिगुणत्वं तैजसपरमाणूनां द्विगुणत्वं वायवीयपरमाणूनामेकगुणतेति विभागमाह -
यथेति ।
परमाणुमात्रवृत्तिपरिमाणं दर्शयति -
पारिमाण्डल्येति ।
तेषामारम्भकक्रममाह -
ते च पश्चादिति ।
सर्गहेतुकर्मोद्भवावस्था पश्चादित्युक्ता । समवायिकारणं परमाणूनुक्त्वा निमित्तकारणमाह -
अदृष्टादीति ।
आदिशब्देनेश्वरप्रयत्नाद्युच्यते ।
असमवायिकारणमाह -
संयोगेति ।
अदृष्टवत्क्षेत्रज्ञसंयोगात्परमाणौ कर्म ततोऽण्वन्तरसंयोगाद्द्व्यणुकमारभ्यते । नच परमाणवो बहवः संयुक्ताः सहसा कार्यारम्भकाः परमाणुत्वे सति बहुत्वाद्धटोपगृहीतपरमाणुवत् । नच तेषामपि घटारम्भकतया साध्यवैकल्यं, घटभङ्गे कपालादीनामनारब्धत्वादणूनां चातीन्द्रियत्वात्सर्वानुपलब्धिप्रसङ्गात् । नच द्वावपि परमाणू कार्यानारम्भकौ परमाणुत्वे सति द्वित्वाद्धटोपगृहीतपरमाणुद्वयवदिति युक्तं साध्यवैकल्यात् । द्व्यणुकानि च त्रीणि सम्भूय त्र्यणुकमुत्पादयन्ति तदनन्तरमारम्भकसङ्ख्यानियमो नेति भावः ।
द्रव्याणि द्रव्यान्तरमारभन्त इति सूत्रार्थमुक्त्वा गुणाश्च गुणान्तरमिति सूत्रार्थमाह -
कारणेति ।
कतिपयकारणगुणानामारम्भकत्वं सर्वेषां वेति वीक्षायामाद्यं व्युत्पादयति -
यदेति ।
कल्पान्तरं दूषयति -
परमाण्विति ।
अभ्युपगममेव साधयति -
अणुत्वेति ।
इतश्च कतिपयगुणानामेवारम्भकत्वमित्याह -
यदापीति ।
द्व्यणुकेऽधिकरणे द्विशब्दस्य भावप्रधानत्वाद्वे द्वित्वे ते स्वाश्रयाणां चतुर्णां द्व्यणुकानां चतुरणुकारम्भकत्वात्तदारम्भके विवेक्ष्येते । न हि द्वित्वद्वयं हित्वा तदाथाराणां द्व्यणुकानामारम्भकत्वम् । अथवाऽऽणुकमिति द्व्यणुकमुक्तं ते द्वित्वावच्छिन्ने यदा द्वित्वसङ्ख्ययावच्छिद्येते तदा द्वौ घटावितिवद्द्वे द्व्यणुके इ्त्युक्ते द्व्यणुकचतुष्टयं सम्पद्यते । एवं चतुर्णां द्व्यणुकानां चतुरणुकारम्भकत्वे स्थिते तद्गतानां गुणानां तुल्यजातीयारम्भकतेत्यर्थः ।
सर्वगुणानामनारम्भकत्वे हेत्वन्तरमाह -
अणुत्वेति ।
व्यवस्थितां वैशेषिकप्रक्रियां प्रदर्श्याव्यवस्थितां दर्शयति -
यदापीति ।
कारणगुणानां केषाञ्चिदारम्भकत्वं न सर्वेषामिति सर्वेषां तुल्यमित्याह -
तदापीति ।
व्यवस्थितामव्यवस्थितां च परप्रक्रियामुक्त्वा सूत्रं व्याकुर्वन्व्यभिचारमाह -
तदेवमिति ।
तत्तत्र तस्यां प्रक्रियायामेवमुक्तप्रकारेणेति यावत् ।
अव्यवस्थितप्रक्रियामाश्रित्योक्तम् -
महदित्यादि ।
वाशब्दोऽनुक्ताणुह्रस्वकार्यसमुच्चयार्थ इति व्याचष्टे -
यथा वेति ।
नाणु जायते नापि ह्रस्वं जायते त्र्यणुकादिति योजना ।
पारिमाण्डल्यादीनां तुल्यजातीयानारम्भकत्वे सिद्धे दार्ष्टान्तिकमाह -
एवमिति ।