ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥
अथ मन्यसेविरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादि इत्यतो नारम्भकाणि कारणगतानि पारिमाण्डल्यादीनिइत्यभ्युपगच्छामि; तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति, येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत; ह्यचेतना नाम चेतनाविरोधी कश्चिद्गुणोऽस्ति, चेतनाप्रतिषेधमात्रत्वात्तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमितिमैवं मंस्थाःयथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वम् , एवं चैतन्यस्यापिइत्यस्यांशस्य समानत्वात् परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणम् , प्राक्परिमाणान्तरारम्भात्पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः; आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते, परिमाणान्तरस्यान्यहेतुकत्वाभ्युपगमात्; कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत्’ (वै. सू. ७ । १ । ९) तद्विपरीतमणु’ (वै. सू. ७ । १ । १०) एतेन दीर्घत्वह्रस्वत्वे व्याख्याते’ (वै. सू. ७ । १ । १७) इति हि काणभुजानि सूत्राणि सन्निधानविशेषात्कुतश्चित्कारणबहुत्वादीन्येवारभन्ते, पारिमाण्डल्यादीनीतिउच्येत, द्रव्यान्तरे गुणान्तरे वा आरभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात्तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वम् , तथा चेतनाया अपीति द्रष्टव्यम्

दृष्टान्तवैषम्यं चोदयति -

अथेति ।

जगत्यपि तुल्यं विरोधिगुणाक्रान्तत्वमित्याशङ्क्याह -

नत्विति ।

अचेतनायाश्चेतनाविरोधिन्या जगति भावाच्चेतनायाः सजतीयानानरम्भकतेत्याशङ्क्याह -

न हीति ।

विशेषगुणत्वाच्चेतनायाः साधारण्यात्पारिमाण्डल्यादेर्वैषम्यं मत्वा तत्फलमाह -

तस्मादिति ।

ज्ञानवानस्मीति प्रत्ययस्य बुद्धिवृत्त्युपधानाधीनत्वाच्चेतनस्य स्वरूपत्वेन गुणत्वासिद्दौ विशेषगुणत्वस्य दूरापेतत्वं मत्वा विवक्षितांशे दृष्टन्तसिद्धिरित्याह -

मैवमिति ।

न स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं किन्तु विरोधिगुणसंनिपातात् । चैतन्यस्य तु तदभावादारम्भकतेत्याशङ्क्याह -

न चेति ।

तत्र हेतुः -

परिमाणान्तरस्येति ।

कथमन्यहेतुत्वं, तत्राप्तोक्तिमुदाहरति -

कारणेति ।

बहुभिर्द्व्यणयकैरारब्धे त्र्यणुकादौ यन्महत्त्वं तस्य द्व्यणुकगतं बहुत्वमसमवायिकारणं कार्यद्रव्यं समवायिकारणम् । यत्पुनरयःपिण्डेन पञ्चाशत्पलेनारब्धं कार्यं तावत्पलमुपलभ्यते तन्महत्त्वे पिण्डस्य प्रचयः संयोगविशेषो हेतुः । महद्भिरवयवैरारब्धे पटे यन्महत्त्वं तस्य कारणमहत्त्वं हेतुरिति त्रिभ्यः कारणेभ्यो महत्त्वमित्यर्थः ।

यत्कारणबहुत्वादिभ्यो महत्त्वं त्र्यणुकादौ जातं ततो विपरीतं द्व्यणुकगतमणुत्वमीश्वरापेक्षाबुद्धिजन्यपरमाणुनिष्ठद्वित्वासमवायिकारणादुत्पद्यते, तदाह -

तदिति ।

द्वित्वमहत्त्वबहुत्वप्रचयेभ्यो यथासम्भवं ह्रस्वत्वदीर्घत्वयोरुत्पत्तिरित्याह -

एतेनेति ।

समस्तेन प्रकारेणेति यावत् ।

ननु पारिमाण्डल्यादीनि संयोगादिभिर्व्यवहितानि कार्यद्रव्ये समानजातीयानारम्भकाणि । प्रचयादयस्तु कारणस्थास्तन्निष्ठकार्यद्रव्यस्य संनिहितत्वात्तत्र महत्त्वाद्यारम्भकास्ततो न स्वभावादनारम्भकत्वं पारिमाण्डल्यादीनामिति, तत्राह -

नचेति ।

गुणो गुणिनि समवेतो व्याप्योऽव्याप्यो वा सर्वथा कारणस्थात्वं गुणानां कार्यरम्भे निमित्तम् । नच निरवयवाणुगुणानां संनिधिरसंनिधिर्वाऽऽरम्भोपयोगी सम्भवतीति भावः ।

परिशेषसिद्धमर्थमाह -

तस्मादिति ।

दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमुपसंहरति -

तथेति ।