ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
इदानीं परमाणुकारणवादं निराकरोति वाद इत्थं समुत्तिष्ठतेपटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतैरेव संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि दृष्टानितत्सामान्येन यावत्किञ्चित्सावयवम् , तत्सर्वं स्वानुगतैरेव संयोगसचिवैस्तैस्तैर्द्रव्यैरारब्धमिति गम्यते चायमवयवावयविविभागो यतो निवर्तते, सोऽपकर्षपर्यन्तगतः परमाणुःसर्वं चेदं गिरिसमुद्रादिकं जगत्सावयवम्; सावयत्वाच्चाद्यन्तवत् चाकारणेन कार्येण भवितव्यम्इत्यतः परमाणवो जगतः कारणम्इति कणभुगभिप्रायःतानीमानि चत्वारि भूतानि भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्तेतेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासम्भवाद्विनश्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति; प्रलयकालःततः सर्गकाले वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यतेतत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्तिततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते; एवमग्निः; एवमापः; एवं पृथिवी; एवमेव शरीरं सेन्द्रियम्इत्येवं सर्वमिदं जगत् अणुभ्यः सम्भवतिअणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि सम्भवन्ति, तन्तुपटन्यायेनइति काणादा मन्यन्ते
तत्रेदमभिधीयतेविभागावस्थानां तावदणूनां संयोगः कर्मापेक्षोऽभ्युपगन्तव्यः, कर्मवतां तन्त्वादीनां संयोगदर्शनात्कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम्अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्म स्यात्अभ्युपगमेऽपियदि प्रयत्नोऽभिघातादिर्वा यथादृष्टं किमपि कर्मणो निमित्तमभ्युपगम्येत, तस्यासम्भवान्नैवाणुष्वाद्यं कर्म स्यात् हि तस्यामवस्थायामात्मगुणः प्रयत्नः सम्भवति, शरीराभावात्शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सति आत्मगुणः प्रयत्नो जायतेएतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यातव्यम्सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं सम्भवतिअथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येततत्पुनरात्मसमवायि वा स्यात् अणुसमवायि वाउभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेत, अदृष्टस्याचेतनत्वात् ह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति साङ्ख्यप्रक्रियायामभिहितम्आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात्आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यात् , असम्बन्धात्अदृष्टवता पुरुषेणास्त्यणूनां सम्बन्ध इति चेत्सम्बन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गः, नियामकान्तराभावात्तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात्; कर्माभावात्तन्निबन्धनः संयोगो स्यात्; संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्यजातं स्यात्संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यात् एकदेशेन वा ? सर्वात्मना चेत् , उपचयानुपपत्तेरणुमात्रत्वप्रसङ्गः, दृष्टविपर्ययप्रसङ्गश्च, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात्एकदेशेन चेत् , सावयवत्वप्रसङ्गःपरमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् , कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायिकारणं स्यात्; असति चासमवायिकारणे द्व्यणुकादिकार्यद्रव्यं नोत्पद्येतयथा चादिसर्गे निमित्ताभावात्संयोगोत्पत्त्यर्थं कर्म नाणूनां सम्भवति, एवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां सम्भवेत् हि तत्रापि किञ्चिन्नियतं तन्निमित्तं दृष्टमस्तिअदृष्टमपि भोगप्रसिद्ध्यर्थम् , प्रलयप्रसिद्ध्यर्थम्इत्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्मअतश्च संयोगविभागाभावात्तदायत्तयोः सर्गप्रलययोरभावः प्रसज्येततस्मादनुपपन्नोऽयं परमाणुकारणवादः ॥ १२ ॥

वैशेषिकगुणारम्भानुमानेन समन्वयस्य प्रासङ्गिकविरोधं परिहृत्य तन्मतविरोधं परिहर्तुमारभते -

उभयथेति ।