ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
इदानीं परमाणुकारणवादं निराकरोति वाद इत्थं समुत्तिष्ठतेपटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतैरेव संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि दृष्टानितत्सामान्येन यावत्किञ्चित्सावयवम् , तत्सर्वं स्वानुगतैरेव संयोगसचिवैस्तैस्तैर्द्रव्यैरारब्धमिति गम्यते चायमवयवावयविविभागो यतो निवर्तते, सोऽपकर्षपर्यन्तगतः परमाणुःसर्वं चेदं गिरिसमुद्रादिकं जगत्सावयवम्; सावयत्वाच्चाद्यन्तवत् चाकारणेन कार्येण भवितव्यम्इत्यतः परमाणवो जगतः कारणम्इति कणभुगभिप्रायःतानीमानि चत्वारि भूतानि भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्तेतेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासम्भवाद्विनश्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति; प्रलयकालःततः सर्गकाले वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यतेतत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्तिततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते; एवमग्निः; एवमापः; एवं पृथिवी; एवमेव शरीरं सेन्द्रियम्इत्येवं सर्वमिदं जगत् अणुभ्यः सम्भवतिअणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि सम्भवन्ति, तन्तुपटन्यायेनइति काणादा मन्यन्ते

नास्य प्रासङ्गिकानन्तराधिकरणेन सङ्गतिरिति मन्वानः प्रधानं चेतनानधिष्ठितं न चेत्कारणं तर्हि परमाणवस्तदधिष्ठिता भवन्तु तथेति व्यवहितेन सङ्गतिं गृहीत्वा तात्पर्यमाह -

इदानीमिति ।

वैशेषिकराद्धान्तस्य भ्रान्तिमूलत्वोक्त्या तदीययुक्तिविरोधं निराकृत्य समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे प्रामाणिकपरकीयराद्धान्तविरोधे समन्वयस्यासिद्धिः, सिद्धान्ते तत्प्रामाणिकत्वासिद्ध्या भ्रान्तेन तेन विरोधाभावे तत्सिद्धिरिति फलम् ।

परमाणुभिर्द्व्यणुकादिक्रमेण चेतनाधिष्ठितैरारब्धं जगदिति वैशेषिकराद्धान्तो मानमूलो भ्रान्तिमूलो वेति विप्रतिपत्तेः संशये पूर्वपक्षमाह -

स चेति ।

सामान्यतो दृष्टं वक्तुं व्याप्तिमाह -

पटादीनीति ।

स्वानुगतैः स्वसमवायप्रतियोगिभिरित्यर्थः ।

मिथोऽसंयुक्ततन्त्वादीनां न पटाद्यारम्भकत्वमसमवाय्यभा वादिति वक्तुं संयोगसचिवैरित्युक्तम् । यत्कार्यद्रव्यं तद्विशिष्टद्रव्यारब्धं यथा पटादीति व्याप्तिमुक्त्वानुमानमाह -

तदिति ।

तैः पटादिभिः सामान्यं कार्यद्रव्यत्वं तेनेति यावत् । किञ्चित्सावयवद्रव्यमिति क्षित्यादिचतुष्टयमुक्तम् । स्वानुगतैरित्यादि पूर्ववत् । तैस्तैर्द्रव्यैरिति वस्तुतश्चतुर्विधपरमाणूक्तिः । विमतं स्वपरिमाणादणुतरपरिमाणसंयोगसचिवसमानजातीयानेकद्रव्यारब्धं, कार्यद्रव्यत्वात् , घठादिवदित्यर्थः ।

कथमेतावता परमाणुसिद्धिः, तत्राह -

स चेति ।

यत्किञ्चित्सावयवं द्व्यणुकपर्यन्तं तत्सर्वमेवमारब्धमित्यनुमानप्रवृत्तेरणुपरिमाणा निरवयवाः कार्यद्रव्येण पार्थिवत्वादिना तुल्या नित्या बहवश्चाणवः सावयवानामारम्भकाः सिध्यन्तीत्यर्थः ।

अनाद्यनन्तत्वाज्जगतो हेत्वाकाङ्क्षाभावान्न परमाणवस्तत्कारणमिति हेत्वसिद्धिमाशङ्क्याह -

सर्वं चेति ।

विमतमाद्यन्तवत् , सावयवत्वात् , पटवदित्यर्थः ।

कार्यत्वेऽपि स्वभावादेवोत्पत्तेर्न कारणाकाङ्क्षेत्याशङ्क्य विमतं सकारणकं, कार्यत्वात् , संमतवदित्याह -

न चेति ।

तच्च किमित्याकाङ्क्षायां सावयवस्य स्वतोऽल्पपरिमाणारभ्यत्वदूष्टेरणवो मूलकारणमिति काणादोऽभिप्रेतवानित्याह -

इत्यत इति ।

ते कतिविधा इति, तत्राह -

तानीति ।

चत्वारीत्यवयविभूताभिप्रायं, पञ्चमभूतस्यावयवाभावात् ।

तेऽपि मूर्तत्वादनित्याः पटवदित्याशङ्क्याह -

तेषां चेति ।

कारणविभागात्कारणविनाशाद्वा कार्यद्रव्यस्य नाशः, तदभावादणुनित्यत्वं, तदभावश्चाणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं, परिमाणतारतम्यत्वात् , महत्परिमाणतारतम्यवदित्यनुमानान्महत्त्वापकर्षविश्रन्तिभूमित्वेनाणूनां परतो विभागायोगादित्यर्थः ।

एकद्रव्यावशेषे प्रलयः स कथमनेकद्रव्यशेषे स्यादित्याशङ्क्य कार्यद्रव्यमात्रस्य युगपन्नाशो लय इत्याह -

स इति ।

सृष्टिक्रममाचष्टे -

तत इति ।

अदृष्टापेक्षमदृष्टवत्क्षेत्रज्ञसंयोगापेक्षमिति यावत् ।

कर्मासमवायिकारणं कार्यमाह -

तदिति ।

संयोगादसमवायिनो द्व्यणुकोत्पत्तौ द्व्यणुकेभ्यस्त्र्यणुकादिजन्मेत्याह -

तत इति ।

वायावुक्तं शिष्टे भूतत्रयेऽतिदिशति -

एवमिति ।

भूतोत्पत्तिवद्भौतिकोत्पत्तिमाह -

एवमेवेति ।

द्रव्योत्पत्तिं निगमयति -

एवमिति ।

गुणोत्पत्तिक्रमं सूचयति -

अण्विति ।

उक्तसर्गक्रमस्यालौकिकत्वं वारयति -

तन्त्विति ।

तन्तुभ्यः संयुक्तेभ्यो महान्पटो जायते, तन्तुगताच्च रूपादेस्तत्र रूपादि दृष्टं तेन दृष्टान्तेनोक्तसर्गक्रमधीरित्यर्थः ।

पूर्वपक्षमुपसंहरति -

इति काणादा इति ।