विपर्ययं दर्शयितुं परमतमनुवदति -
सावयवानामिति ।
यतो येभ्योऽवयवेभ्यः सकाशात्परः परस्ताद्भावीति यावत् । रूपादिमन्तः । रूपरसगन्धस्पर्शेत्याद्यनुक्रमेण रूपमादौ विद्यते यस्य स्पर्शस्य स स्पर्शो रूपादिस्तदाश्रया इत्यर्थः ।
तेषां चातुर्विध्ये हेतुः -
चतुर्विधस्येति ।
कार्यस्य चातुर्विध्यं कारणेऽपि तत्कल्पयतीत्यर्थः ।
तेषां स्पर्शवत्त्वे हेतुमाह -
रूपादिमत इति ।
कार्ये दृष्टं स्पर्शित्वं कारणेऽपि तत्कल्पकमित्यर्थः ।
आरम्भकान्तरापेक्षायामनवस्थानान्नारम्भकाः स्युरिति मत्वाऽह -
नित्याश्चेति ।
परोपगतिमनूद्य प्रत्याह -
स इति ।
निरालम्बनत्वे हेतुः -
यत इति ।
रूपादिमत्त्वं पक्षव्याप्त्यर्थं पूर्ववद्व्याख्येयम् । विमताः सावयवा नाशिनश्च, स्पर्शित्वात् , पटवदित्यनुमानात्परोपगतेर्निराश्रयतेत्यर्थः ।
अणूनां सावयवत्वाद्युक्तिर्व्याहतेत्याशङ्क्याह -
परमेति ।
कारणवत्त्वस्य नाशित्वहेतुत्वे तस्यैव द्रव्यत्वविशेषितस्य सावयवत्वे हेतुत्वात्कुतोऽनुमेति शङ्कते -
कुत इति ।
साधनव्याप्तिं मत्वा सूत्रावयवमवतारयति -
एवमिति ।
दर्शनमेव विशदयन्व्याप्तिमाह -
यद्धीति ।
स्पर्शवतः सावयवत्वमनित्यत्वं च दृष्टमित्यत्र दृष्टान्तमाह -
तदिति ।
दृष्टान्तबाहुल्यं सूचयति -
तन्तवश्चेति ।
उपनयद्वारा पक्षधर्मतामाह -
तथाचेति ।
अनुमानद्वयं निगमयति -
तस्मादिति ।
पूर्वोक्तोपाधेः साधनव्याप्तिमभिप्रेतां प्रकटयितुं विशिनष्टि -
कारणवन्त इति ।
पृथिवीत्वमनित्यमात्रवृत्ति, स्पर्शवन्मात्रवृत्तित्वात् , घटत्ववदित्याद्यनुमानं चकारार्थः ।
परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् , आत्मवदिति प्रत्यनुमानमुत्थापयति -
यच्चेति ।
विशेष्यासिद्धिमाह -
तदपीति ।
एवं सति । परमाणूनां कारणवत्त्वे सतीत्यर्थः ।
तदेव कथं, तत्राह -
उक्तेनेति ।
स्पर्शित्वेन परिच्छिन्नत्वेन चेत्यर्थः ।
नित्यत्वनिषेधस्तत्प्रतियोगिवस्तुपूर्वकः, निषेधत्वात् , घटनिषेधवदित्यनुमानादणुनित्यत्वसिद्धौ तदनित्यत्वानुमानासिद्धिरित्यनुवदति -
यदपीति ।
कार्यमनित्यमिति कार्ये विशेषतो नित्यत्वनिषेधो न स्याद्यदि कारणेऽप्यनित्यत्वम् , अतोऽणूनां कारणानां नित्येतेति सूत्रार्थः ।
उभयसिद्धात्मनित्यत्वेनैव विशेषनिषेधसिद्धेरुक्तानुमानस्य सिद्धसाध्यत्वान्नाणुनित्यतासाधकतेत्याह -
तदपीति ।
अनित्यमित्ययं कार्ये विशेषेण नित्यत्वनिषेध इत्यङ्गीकृत्योक्तं, तदपि नास्तीत्याह -
न चेति ।
मूलप्रमाणं विना शब्दादेव पौरुषेयाद्योऽर्थे व्यवहारस्तन्मात्रेणेति यावत् ।
अन्यथा वटे यक्षप्रसिद्धेरपि प्रामाण्यं स्यादिति मत्वा हेतुमाह -
प्रमाणान्तरेति ।
अनित्यशब्दान्नित्यत्वनिषेधमात्रं सिद्धं न कार्ये तन्निषेधो येन कार्यप्रतियोगिनि कारणे नित्यत्वस्थितिः, विशेषस्तु मानान्तरादेव लभ्यते, ततस्तस्मादेवाणुनित्यत्वसिद्धौ व्यर्थं पूर्वानुमानमित्यर्थः ।
परमाणवो नित्याः, अनुपलभ्यमानकारणत्वात् , आत्मवदित्यनुमानान्तरमनुभाषते -
यदपीति ।
प्रत्यक्षेणानुमानेन वा तदनुपलब्धिरिति विकल्प्याद्यमनुवदति -
तदिति ।
सतामणूनां दृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणाग्रहणमविद्येति यदि सूत्रं व्याख्यायेतेति योजना ।
तर्हि द्व्यणुके व्यभिचारः स्यादित्याह -
तत इति ।
आरम्भकद्रव्यशून्यत्वे सति प्रत्यक्षेणानुप्रलब्धकारणत्वस्य हेतुत्वान्मैवमिति शङ्कते -
अथेति ।
अद्रव्यत्वमविद्यमानकारणद्रव्यत्वं, तावतैव नित्यत्वसिद्धौ विशेष्यवैयर्थ्यमित्याह -
तथापीति ।
अस्तु तावदेव तर्हि नित्यतानिमित्तं, तत्राह -
तस्येति ।
न चानुमानेन कारणानुपलब्धिः, परिच्छिन्नत्वानुमानस्योक्तत्वादिति चकारार्थः ।
अवयवनाशोऽवयवव्यतिषङ्गनाशश्च द्रव्यनाशकारणं तदुभयासत्त्वमविद्यापदेनोच्यते, तथा च परमाणवो नित्याः, उभयनाशकारणशून्यत्वात् , आत्मवदिति सूत्रार्थ इत्याह -
अथापीति ।
हेत्वसिद्धिमाह -
नेति ।
आरम्भवादानुपगमं नियमाभावे हेतुमाह -
संयोगेति ।
परिणामवादे नाशहेत्वन्तरसम्भवादसिद्धिरुद्धृतेत्याह -
यदेति ।
नच घृतकाठिन्यनाशेऽपि कारणमवयवविभागादीति युक्तम् , अणुकाठिन्यस्य नाशकद्वयाभावेऽपि विनाशाङ्गीकारात् । नच तत्काठिन्यं न नश्यति, तत्कार्येऽपि तदनाशापातात् । कारणगुणनाशद्वारा कार्ये तन्नाशाश्रयणात् । तस्मादण्ववस्थां हित्वा ब्रह्मणः । स्वरूपेणावस्थानमणुनाश इत्याशयेन घृतकाठिन्यमुदाहृतम् ।
प्रत्ननुमानायोगे फलितमाह -
तस्मादिति ।
स्पर्शवत्त्वानुमानफलं निगमयति -
तस्मादपीति ॥ १५ ॥