उभयथा च दोषात् ॥ १६ ॥
गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी, रूपरसस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुः — इत्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते । तद्वत्परमाणवोऽप्युपचितापचितगुणाः कल्प्येरन् न वा ? उभयथापि च दोषानुषङ्गोऽपरिहार्य एव स्यात् । कल्प्यमाने तावदुपचितापचितगुणत्वे, उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्गः । न चान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्येत, कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् । अकल्प्यमाने तूपचितापचितगुणत्वे — परमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्व एकैकगुणा एव कल्प्येरन् , ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात् , अप्सु रूपस्पर्शयोः, पृथिव्यां च रसरूपस्पर्शानाम् , कारणगुणपूर्वकत्वात्कार्यगुणानाम् । अथ सर्वे चतुर्गुणा एव कल्प्येरन् , ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात् , तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम् । न चैवं दृश्यते । तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १६ ॥