अणूनामतुल्यगुणत्वे तुल्यगुणत्वे च दोषध्रौव्यात्तद्वादासिद्धिरिति वक्तुमनुभवागमसिद्धमर्थमाह -
गन्धेति ।
शब्दस्य पृथिव्यादिगुणत्वेन परैरनिष्टत्वाच्चत्वारि भूतानि चतुस्त्रिद्वेकगुणान्युदाहृत्य विकल्पयति -
तद्वदिति ।
स्थूलपृथिव्यादिवदित्यर्थः ।
पक्षद्वयस्यापि दोषवत्त्वमाह -
उभयथेति ।
आद्यमनूद्य दोषानुषक्तिं विशदयति -
कल्प्यमान इति ।
मूर्त्युपचयः स्थौल्यम् । द्रव्यातिरिक्तानां गुणानामुपचयेऽपि किमिति द्रव्यस्य स्थौल्यं, तत्राह -
न चेति ।
तत्र कार्यलिङ्गमनुमानं हेतुमाह -
कार्येष्विति ।
कल्पान्तरमनुवदति -
अकल्प्येति ।
सर्वेषामणुत्वाक्रान्तानां साम्यार्थमेकैकगुणत्वं वा चतुर्गुणत्वं वा । तत्राद्यमनूद्य प्रत्याह -
परमाणुत्वेति ।
तेषामेकैकगुणत्वेऽपि किमिति कार्येषु नानागुणत्वं न स्यादित्याशङ्क्याह -
कारणेति ।
द्वितीयमनूद्य निराह -
अथेत्यादिना ।
इष्टापत्तिमाशङ्क्याह -
न चेति ।
चतुर्गुणत्वे सर्वेषां स्थौल्याद्वायोश्चाक्षुषत्वं प्रसज्येत, एकैकगुणत्वेऽपि तारतम्यासिद्धिरिति मत्वोपसंहरति -
तस्मादिति ॥ १६ ॥