ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभिः सत्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धःअयं तु परमाणुकारणवादो कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिःअपि वैशेषिकास्तन्त्रार्थभूतान् षट्पदार्थान् द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यान् अत्यन्तभिन्नान् भिन्नलक्षणान् अभ्युपगच्छन्तियथा मनुष्योऽश्वः शश इतितथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति; तन्नोपपद्यतेकथम् ? यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति, एवं द्रव्यादीनामप्यत्यन्तभिन्नत्वात् , नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हतिअथ भवति द्रव्याधीनत्वं गुणादीनाम् , ततो द्रव्यभावे भावाद्द्रव्याभावे चाभावाद्द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवतियथा देवदत्त एक एव सन् अवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति, तद्वत्तथा सति साङ्ख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम्नन्वग्नेरन्यस्यापि सतो धूमस्याग्न्यधीनत्वं दृश्यते; सत्यं दृश्यते; भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयतेइह तुशुक्लः कम्बलः, रोहिणी धेनुः, नीलमुत्पलम्इति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषणेन प्रतीयमानत्वात् नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्तितस्माद्द्रव्यात्मकता गुणस्यएतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता
गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यदुच्यते, तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात् , अपृथक्कालत्वं वा, अपृथक्स्वभावत्वं वा ? सर्वथापि नोपपद्यतेअपृथग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येतकथम् ? तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते, पटदेशःपटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते, तन्तुदेशाःतथा चाहुःद्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्’ (वै. सू. १ । १ । १०) इति; तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते, तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्लादिगुणान्तरमारभन्तेइति हि तेऽभ्युपगच्छन्तिसोऽभ्युपगमो द्रव्यगुणयोरपृथग्देशत्वेऽभ्युपगम्यमाने बाध्येतअथ अपृथक्कालत्वमयुतसिद्धत्वमुच्येत, सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येततथा अपृथक्स्वभावत्वे त्वयुतसिद्धत्वे, द्रव्यगुणयोरात्मभेदः सम्भवति, तस्य तादात्म्येनैव प्रतीयमानत्वात्
युतसिद्धयोः सम्बन्धः संयोगः, अयुतसिद्धयोस्तु समवायःइत्ययमभ्युपगमो मृषैव तेषाम् , प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्वानुपपत्तेःअथान्यतरापेक्ष एवायमभ्युपगमः स्यात्अयुतसिद्धस्य कार्यस्य कारणेन सम्बन्धः समवाय इति, एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन सम्बन्धो नोपपद्यते, द्वयायत्तत्वात्सम्बन्धस्यसिद्धं भूत्वा सम्बध्यत इति चेत् , प्राक्कारणसम्बन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्ध्यभावात् , कार्यकारणयोः संयोगविभागौ विद्येते इतीदं दुरुक्तं स्यात्यथा चोत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरैः सम्बन्धः संयोग एवाभ्युपगम्यते, समवायः, एवं कारणद्रव्येणापि सम्बन्धः संयोग एव स्यात् , समवायःनापि संयोगस्य समवायस्य वा सम्बन्धस्य सम्बन्धिव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्तिसम्बन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् , ; एकत्वेऽपि स्वरूपबाह्यरूपापेक्षया अनेकशब्दप्रत्ययदर्शनात्यथैकोऽपि सन् देवदत्तो लोके स्वरूपं सम्बन्धिरूपं चापेक्ष्य अनेकशब्दप्रत्ययभाग्भवतिमनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्यत्वेन निविशमाना एकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति, तथा सम्बन्धिनोरेव सम्बन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वम् , व्यतिरिक्तवस्त्वस्तित्वेनइत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेः अभावः वस्त्वन्तरस्य; नापि सम्बन्धिविषयत्वे सम्बन्धशब्दप्रत्यययोः सन्ततभावप्रसङ्गः; स्वरूपबाह्यरूपापेक्षयेतिउक्तोत्तरत्वात्तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः सम्भवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात्कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत् , ; अविद्यमानार्थकल्पनायां सर्वार्थसिद्धिप्रसङ्गात् , इयानेवाविद्यमानो विरुद्धोऽविरुद्धो वा अर्थः कल्पनीयः, नातोऽधिकःइति नियमहेत्वभावात् , कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसम्भवाच्च वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदार्थेभ्योऽन्येऽधिकाः शतं सहस्रं वा अर्था कल्पयितव्या इति निवारको हेतुरस्तितस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिध्येत्कश्चित्कृपालुः प्राणिनां दुःखबहुलः संसार एव मा भूदिति कल्पयेत्; अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत्; कस्तयोर्निवारकः स्यात्किञ्चान्यत्द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः ह्याकाशस्य पृथिव्यादीनां जतुकाष्ठवत्संश्लेषोऽस्तिकार्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत् , ; इतरेतराश्रयत्वात्कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिः आश्रिताश्रयभावसिद्धौ तयोर्भेदसिद्धिःकुण्डबदरवत्इतीतरेतराश्रयता स्यात् हि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात्
किञ्चान्यत्परमाणूनां परिच्छिन्नत्वात् , यावत्यो दिशःषट् अष्टौ दश वातावद्भिरवयवैः सावयवास्ते स्युः, सावयवत्वादनित्याश्चइति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येतयांस्त्वं दिग्भेदभेदिनोऽवयवान्कल्पयसि, एव मम परमाणव इति चेत् , ; स्थूलसूक्ष्मतारतम्यक्रमेण परमकारणाद्विनाशोपपत्तेःयथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति, ततः सूक्ष्मं सूक्ष्मतरं पृथिव्येकजातीयकं विनश्यति, ततो द्व्यणुकम् , तथा परमाणवोऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुःविनश्यन्तोऽप्यवयवविभागेनैव विनश्यन्तीति चेत् , नायं दोषः; यतो घृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचामयथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगात् द्रवभावापत्त्या काठिन्यविनाशो भवति, एवं परमाणूनामपि परमकारणभावापत्त्या मूर्त्यादिविनाशो भविष्यतितथा कार्यारम्भोऽपि नावयवसंयोगेनैव केवलेन भवति, क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात्तदेवमसारतरतर्कसन्दृब्धत्वादीश्वरकारणश्रुतिविरुद्धत्वाच्छ्रुतिप्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षा अस्मिन्परमाणुकारणवादे कार्या श्रेयोर्थिभिरिति वाक्यशेषः ॥ १७ ॥

न केवलमणुवादस्यायुक्तत्वं किन्तु शिष्टापरिग्रहाद्ग्रन्थतोऽर्थतश्चोपेक्ष्यत्वमित्याह -

अपरिग्रहाच्चेति ।