ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभिः सत्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धःअयं तु परमाणुकारणवादो कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिःअपि वैशेषिकास्तन्त्रार्थभूतान् षट्पदार्थान् द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यान् अत्यन्तभिन्नान् भिन्नलक्षणान् अभ्युपगच्छन्तियथा मनुष्योऽश्वः शश इतितथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति; तन्नोपपद्यतेकथम् ? यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति, एवं द्रव्यादीनामप्यत्यन्तभिन्नत्वात् , नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हतिअथ भवति द्रव्याधीनत्वं गुणादीनाम् , ततो द्रव्यभावे भावाद्द्रव्याभावे चाभावाद्द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवतियथा देवदत्त एक एव सन् अवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति, तद्वत्तथा सति साङ्ख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम्नन्वग्नेरन्यस्यापि सतो धूमस्याग्न्यधीनत्वं दृश्यते; सत्यं दृश्यते; भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयतेइह तुशुक्लः कम्बलः, रोहिणी धेनुः, नीलमुत्पलम्इति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषणेन प्रतीयमानत्वात् नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्तितस्माद्द्रव्यात्मकता गुणस्यएतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता

अत्यन्तमितिविशेषणसूचितमर्थमाह -

प्रधानेति ।

सत्कार्यत्वादित्यादिशब्देनात्मनोऽसङ्गत्वचिद्रूपत्वादि गृह्यते ।

चकारसूचितमर्थमाह -

अपि चेति ।

परमतस्य न्यायशून्यत्वं वक्तुं तदभ्युपगममाह -

वैशेषिका इति ।

तेषां मिथस्तादात्म्यं वारयति -

अत्यन्तेति ।

तत्र हेतुः -

भिन्नेति ।

तत्र गुणवद्द्रव्यम् । सामान्यवत्त्वे सति प्रत्येकं द्रव्यत्वकर्मत्वयोरनाधारो गुणः । संयोगवियोगयोरसमवायिकारणजातीयं कर्म । नित्यमनेकसमवेतं सामान्यम् । नित्यद्रव्येषु स्वरूपसन्तो विशेषाः । नित्यः सम्बन्धः समवाय इति भिन्नलक्षणत्वम् । पृथिव्यप्तेजोवायवाकाशकालदिगात्ममनांसि नवैव द्रव्याणि । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वपरत्वापरत्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहशब्दाश्चतुर्विशतिगुणाः । उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्माणि । परमपरं च द्विविधं सामान्यम् । अन्त्या विशेषास्त्वनन्ताः । समवायः पुनरेक एवेति मत्वाऽत्यन्तभेदे दृष्टान्तमाह -

यथेति ।

अभ्युपगमान्तरमाह -

तथात्वमिति ।

अत्यन्तभिन्नत्वमिति यावत् ।

मनुष्यादत्यन्तभिन्नानामश्वादीनां मनुष्यपारतन्त्र्यविरोधवद्द्रव्यादत्यन्तभिन्नानां गुणादीनामपि द्रव्यपारतन्त्र्यमत्यन्तभिन्नत्वेन विरुद्धमित्याह -

तदिति ।

परमाणवः समवायश्चेत्युभयमत्यन्तमप्रसिद्धमितरत्प्रसिद्धमित्युपेत्यात्यन्तभिन्नत्वं प्रत्याह -

तन्नेति ।

पारतन्त्र्यनिर्वाहकमत्यन्तभिन्नत्वं न तद्विरोधीत्याह -

कथमिति ।

अत्यन्तभिन्नत्वं नित्यपारतन्त्र्यविरोधि दृष्टमिति व्याप्तिमाह -

यथेति ।

विमतं न द्रव्याधीनं, ततोऽत्यन्तभिन्नत्वात् , यद्यतोऽत्यन्तभिन्नं न तत्तदधीनं, यथा कुशादयः शशादिभ्योऽत्यन्तभिन्नास्तदधीना नेत्यनुमानमाह -

एवमिति ।

व्यतिरेकमुक्त्वान्वयमाह -

अथेति ।

विमतं द्रव्यादभिन्नं, तद्भावाभावानुविधायिभावाभावत्वात् , तद्वत् । न चाग्निभावाभावानुविधायिभावाभावे धूमे व्यभिचारः, तस्याग्निभानं विनापि भानात् । गुणादेश्च द्रव्यभानं विना भाने तत्पारतन्त्र्यव्याहतिरिति भावः ।

विमतं द्रव्याद्भिद्यते, भिन्नशब्दप्रत्ययभाक्त्वात् , घटवदित्याशङ्क्य संस्थानादिभेदोपगमेन सिद्धसाध्यत्वमभिप्रेत्याह -

द्रव्यमिति ।

आकारविशेषः संस्थानभेदोऽवस्थाभेदस्त्वादिशब्दार्थः ।

उक्तमर्यं दृष्टान्तेन साधयन्व्यभिचारमाह -

यथेति ।

एकस्यानेकावस्थात्वं साङ्ख्यसिद्धान्तस्तव त्वनेकस्य कल्पितत्वमेवातो न स्वमतसिद्धिरित्याशङ्क्य तथापि तवापसिद्धान्तः स्यादित्याह -

तथेति ।

निरस्तमेव विधान्तरेणापि निरसितुं शङ्कयति -

नन्विति ।

न तदधीनत्वं तदभेदसाधकं, तत्सामानाधिकरण्येन भानं तु तथा, न तद्धूमेऽस्तीति परिहरति -

सत्यमिति ।

तत्रेति व्यवहारभूमिरुक्ता ।

तुल्या गुणादेरपि द्रव्याद्भेदधीरित्याशङ्‌क्याह -

इह त्विति ।

विवादस्थलं सप्तम्यर्थः ।

विमतं द्रव्यान्न भिद्यते, तत्समानाधिकृतबुद्धिबोध्यत्वात् , संमतवदित्याह -

तस्मादिति ।

गुणे दर्शितं न्यायं कर्मादावतिदिशति -

एतेनेति ।

विमतं द्रव्याभिन्नं, तत्सत्तास्फूर्तिव्यतिरिक्तसत्तास्फूर्तिशून्यत्वात् , तत्स्वरूपवत् । न च साध्याविशिष्टता, तन्मात्रत्वे साध्ये तन्मात्रसमानाधिकृतधीकृततत्सत्ताव्यतिरिक्तसत्तादिराहित्यस्य हेतुत्वादिति भावः ।