गुणादीनां द्रव्यसामानाधिकरण्येन भानं तदभिन्नत्वाभावेऽपि स्यादित्यन्यथासिद्धिं शङ्कते -
गुणानामिति ।
उभयत्र गुणग्रहणं कर्मादेरुपलक्षणम् । तद्दूषयितुं विकल्पयति -
तदिति ।
पक्षत्रये दोषं प्रतिजानीते -
सर्वथेति ।
अपृथग्देशत्वं द्वयोरेकतरस्य वा । तत्राद्ये दोषमाह -
अपृथगिति ।
कथं स्वाभ्युपगमः, तद्विरोधो वा कथमित्याह -
कथमिति ।
प्रथमं स्वाभ्युपगमं दर्शयति -
तन्त्विति ।
तत्र काणादं सूत्रं प्रमाणयति -
तथा चेति ।
उक्तोऽर्थोत्र न भातीत्याशङ्क्य व्याचष्टे -
तन्तवो हीति ।
स्वाभ्युपगमं दर्शयित्वा तद्विरोधं दर्शयति -
स इति ।
न च सम्बन्धिनोरन्यतरस्यापृथग्देशत्वमयुतसिद्धत्वं, घटाकाशसंयोगे व्यभिचारात् । नापि पृथगाश्रयानामाश्रितत्वं तथा, परमाण्वाकाशसम्बन्धे व्यभिचारात् । एतेन सम्बन्धिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वराहित्यं तथेति व्याख्यातम् । अजसंयोगपक्षे दिक्कालसंयोगे व्यभिचारात् । कालो दिशा संयुज्यते, संयोगित्वात् , घटवदिति तत्सिद्धिः । नच मूर्तत्वादिरुपाधिः, संयोगित्वस्यैव तद्व्यतिरेकप्रयोजकत्वादिति भावः ।
द्वितीयमुत्थाप्य निरस्यति -
अथेत्यादिना ।
तृतीयमनूद्य प्रत्याह -
अपृथगिति ।
तयोरात्मभेदायोगे हेतुमाह -
तस्येति ।
नहि सामानाधिकरण्यधीः समवायार्था, पटे शुक्ल इति धीप्रसङ्गादित्यर्थः ।