गुणादीनां द्रव्यस्य चायुतसिद्धत्वं निरस्याभ्युपगमान्तरं निरस्यति -
युतेति ।
अयुतसिद्धतोपगमः सम्बन्धिद्वयापेक्षोऽन्यतरापेक्षो वा । नाद्य इत्याह -
प्रागिति ।
द्वितीयमुत्थापयति -
अथेति ।
अयुतसिद्धत्वमुपेत्य समवायं दुदूषयिषुः सम्बन्धोऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं निरस्यति -
एवमिति ।
द्वितीयं शङ्कयति -
सिद्धमिति ।
तर्हि सतोरप्राप्तयोः प्राप्तिः संयोगः, समवायस्तु नैवमित्युपगमात्कार्यकारणयोरपि संयोगापत्तिरित्याह -
प्रागिति ।
क्रियापूर्वकः सम्बन्धः संयोगः, नच कार्यकारणयोः सोऽस्तीति समवायसिद्धिरित्याशङ्क्याह -
यथेति ।
किञ्च सम्बन्ध्यतिरिक्ते सम्बन्धे सिद्धे संयोगः समवाय इति विवेकः ।
न सम्बन्धोऽतिरिक्तोऽस्ति, तस्य सम्बन्धिसम्बन्धेऽनवस्थानात् । असम्बन्धे नियामकत्वायोगात् । तथाच कार्यं न कारणे समवेतं किन्तु कल्पितमेवेत्याह -
नापीति ।
सम्बन्धः सम्बन्धिभ्यां वस्त्वन्तरं, तद्विलक्षणशब्दधीगम्यत्वात् , वस्त्वन्तरवदिति शङ्कते -
सम्बन्धीति ।
तत्तदनिर्वाच्यानेकविशेषापेक्षयैकस्मिन्नपि नानाशब्दधियाविति सिद्धसाध्यत्वमाह -
नेति ।
सव्यभिचारश्च हेतुरिति मन्वानो दर्शनं विशदयति -
यथेति ।
स्वगतविशेषापेक्षया नानाशब्दधीभाक्त्वमुदाहरति -
मनुष्येति ।
स्वगतावस्थापेक्षया तद्दर्शयति -
बाल इति ।
स्वगतक्रियापेक्षया तदुपन्यस्यति -
पितेति ।
व्यभिचारप्राचुर्यार्थमुदाहरणान्तरमाह -
यथा चेति ।
दृष्टान्तस्थधर्मं दार्ष्टान्तिके योजयति -
तथेति ।
परोक्तानुमाननिरासफलमुपसंहरति -
इत्युपलब्धीति ।
उपलब्धिरेव गमकतया लक्षणं यस्य तेन योग्थत्वेन प्राप्तस्यानुपलब्धिस्तस्मिन्प्रमाणपञ्चकानुपपत्तिस्ततो वस्त्वन्तरस्य सम्बन्ध्यतिरिक्तसम्बन्धस्याभावो निश्चितः, योग्यानुपलब्धेरभावबोधित्वात् । तस्मात्कार्त्स्न्यैकदेशाभ्यामन्तरालदेशशून्यावस्थार्थौ समवायसंयोगशब्दधीगम्यावित्यर्थः ।
सम्बन्धशब्दधियोः सम्बन्ध्यर्थत्वे तस्य सदाभावात्ते सदा स्यातामित्याशङ्क्याह -
नापीति ।
स्वरूपेणाङ्गुल्यो रूपरूपिणोश्च तत्तच्छब्दधीविषयत्वं, नैरन्तर्यात्तु सम्बन्धशब्दधीगम्यतेत्येकत्वेऽपीत्यत्रोक्तत्वान्न यावत्सम्बन्धिसत्त्वं शब्दधीप्रसक्तिरित्यर्थः ।
किञ्च सांशयोः संयोगेऽपि निरंशयोर्नासावित्याह -
तथेति ।
द्व्यणुकादिकार्यहेतुरेव परमाण्वोः संयोगो निरस्तः । सम्प्रति ज्ञानाद्यसमवायिकारणमात्ममनःसंयोगमदृष्टवदात्मसंयोगं चाणूनां निरस्यति -
अण्वात्मेति ।
आत्मनोऽप्रदेशत्वादणुमनसोस्तत्संयोगः सकलात्मवृत्तिरिति तयोरपि परममहत्त्वं स्यादिति भावः ।
असम्भवे हेत्वन्तरमाह -
प्रदेशेति ।
निरस्तमपि कल्पितप्रदेशं दोषान्तराभिधित्सयोद्भावयति -
कल्पिता इति ।
कल्पनया तद्वत्त्वस्य सत्त्वमसत्त्वं वा । द्वितीये कल्पना वृथेति मत्वाद्यं प्रत्याह -
नेत्यादिना ।
अविद्यमानस्य प्रदेशवत्त्वलक्षणस्यार्थस्य कल्पनया सत्त्वसिद्धाविति यावत् ।
तत्र हेतुः -
इयानिति ।
कल्पकाधीनत्वात्काल्पनाया न तया सर्वार्थसिद्धिरित्याशङ्क्याह -
कल्पनायाश्चेति ।
तथापि परिमितत्वात्तस्या न सर्वार्थसाधकत्वं, तत्राह -
प्रभूतत्वेति ।
षण्णामेव पदार्थानां सम्भवान्न सर्वार्थसिद्धिरित्याशङ्क्याह -
न चेति ।
निवारकाभावे फलं सर्वार्थसिद्धिमुपसंहरति -
तस्मादिति ।
किञ्च कल्पनया वस्तुसिद्धौ संसारमोक्षयोरनियतिरिति ब्रुवाणः संसारस्यानियतिरिति -
कश्चिदिति ।
मुक्तेरनियतिमाह -
अन्यो वेति ।
अवस्थाद्वये हेतुमाह -
कस्तयोरिति ।
कार्यकारणयोरत्यन्तभेदे तथैवोपलब्धिप्राप्तौ समवायादेकत्वसिद्धिरित्याशङ्क्य विशेषतः समवायं दूषयति -
किञ्चेति ।
दृष्टान्तं स्पष्टयति -
न हीति ।
कार्यकारणयोरर्थापत्त्या समवायः सिध्यतीति शङ्कते -
कार्येति ।
द्व्यणुकपरमाणू न समवायार्हौ, सावयवनिरवयवद्रव्यत्वात् , भूम्याकाशवदित्यत्राकार्यकारणद्रव्यत्वात्तयोः समवायानर्हतेत्यप्रयोजकत्वमाशङ्क्याह -
नेत्यादिना ।
अन्यतरव्यतिरेकेणान्यतरस्य सिद्धिसम्भवे कथमेवमित्याशङ्क्याह -
न हीति ।
कार्यस्य कारणानाश्रितत्वे स्वातन्त्र्यं स्यादित्याशङ्क्याह -
कारणस्येति ।