परमाणूनां निरवयवत्वमुपेत्योक्तम् । तदेव नास्तीत्याह -
किञ्चेति ।
परमाणवः सावयवाः, परिच्छिन्नत्वात् , घटवत् । परिच्छिन्नत्वं सावयवमात्रवृत्ति, परिच्छिन्नमात्रवृत्तित्वात् , घटत्ववदित्यर्थः ।
तेषां सावयवत्वे दिग्भेदव्यवस्थापकत्वं हेतुरित्याह -
यावत्य इति ।
सावयवत्वफलमाह -
सावयवत्वादिति ।
उक्तानुमानफलमाह -
इति नित्यत्वेति ।
ये दिग्भेदव्यवस्थापकास्त्वया परमाण्ववयवाः स्वीकृतास्त एव मम परमाणवस्तेऽपि सावयवाश्चेत्तदवयवा एवेत्येवं यतः परं न विभागः स परमाणुर्निरवयवः, स च नित्यः परिमाणतारतम्यविश्रान्त्याधारत्वादात्मवदिति शङ्कते –
यानिति ।
किं सर्वथैव विभागायोग्यं वस्तु परमाणुरुतास्मदादिभिरविभज्यमानावयवम् । आद्ये न परमाणोर्दिग्भेदावधित्वं, मूलकारणस्य सन्मात्रस्यैव सर्वथा विभागायोग्यत्वात्तस्य च निरवयवत्वं सिद्धमेव । द्वितीये सन्मात्रान्मूलकारणादतिरिक्तं किञ्चन सूक्ष्मं वस्तु परमाणुरस्तु, स च विनष्टुमर्हति, पृथिव्यादिजातीयत्वात् , पराभीष्टद्व्यणुकवदित्याह -
नेति ।
दृष्टान्तं समर्थयते -
यथेति ।
वस्तुभूताऽपीति परमतेनोक्तम् ।
दार्ष्टान्तिकं निगमयति -
तथेति ।
नित्याः परमाणवः, निरवयवद्रव्यत्वात् , आत्मवदिति शङ्कते -
विनश्यन्त इति ।
हेत्वसिद्ध्या समाधत्ते -
नायमिति ।
उक्तमेव स्फुटयति -
यथेत्यादिना ।
अवयवतत्संयोगविनाशौ विनापि सुवर्णपिण्डो नश्यति । विनापि संयोगान्तरं सुवर्णद्रवो जायते । परमाणुकाठिन्यं च विभागं विना विनश्यति । तद्गतद्रवश्च संयोगादृते भवति । नच काठिन्यद्रवौ तावद्द्रव्यातिरिक्तौ शक्यौ वक्तुम् । एवं विनैवावयवविभागविनाशौ परमाणवो विनङ्क्ष्यन्त्यन्ये चोत्पत्स्यन्त इत्यर्थः ।
मूर्तिशब्देन काठिन्यम् , आदिशब्देनावस्थाभेदादि गृह्यते । द्रव्यनाशस्यावस्थानाशो नोदाहरणमित्याशङ्क्यात्रापि परमाण्ववस्थानाश एव सर्वकार्याणां तदवस्थात्वादित्यभिप्रेत्य कार्यद्रव्यत्वहेतुं व्यभिचारयति -
तथेत्यादिना ।
कार्यनाशस्यावयवनाशतद्विभागाधीनत्वनियमाभाववदित्यर्थः ।
तस्य केवलत्वं प्राधान्यम् । सति तस्मिन्कार्योत्पादस्य क्षेपाभावात् । नियमाभावे हेतुमाह -
क्षीरेति ।
आदिशब्देन लवणादि गृह्यते । क्षीराद्यनुगुणादवयवसंयोगादतिरिक्तो दध्याद्यनुगुणः संयोगोऽवयवसंयोगान्तरम् । दधिहिमादीत्यादिपदं जलाद्यर्थम् । दध्यादिषु सत्यपि कार्यद्रव्यत्वे विशिष्टानेकद्रव्यारब्धत्वसिद्धेरनैकान्त्यादित्यर्थः । एतेन कार्यद्रव्यं स्वपरिमाणादणुतरपरिमाणारब्धं, कार्यद्रव्यत्वादित्यपास्तम् ।
यच्चाणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं, परिमाणतारतम्यत्वादिति, तत्राश्रयासिद्धिरित्यभिप्रेत्याधिकरणार्थमुपसंहरति -
तदेवमिति ।
वाक्यशब्देनापरिग्रहसूत्रं गृह्यते ॥ १७ ॥