ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥
वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम्सोऽर्धवैनाशिक इति वैनाशिकत्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदमिदानीमुपपादयामः बहुप्रकारः, प्रतिपत्तिभेदाद्विनेयभेदाद्वातत्रैते त्रयो वादिनो भवन्तिकेचित्सर्वास्तित्ववादिनः; केचिद्विज्ञानास्तित्वमात्रवादिनः; अन्ये पुनः सर्वशून्यत्ववादिन इतितत्र ये सर्वास्तित्ववादिनो बाह्यमान्तरं वस्त्वभ्युपगच्छन्ति, भूतं भौतिकं , चित्तं चैत्तं , तांस्तावत्प्रतिब्रूमःतत्र भूतं पृथिवीधात्वादयः, भौतिकं रूपादयश्चक्षुरादयश्च, चतुष्टये पृथिव्यादिपरमाणवः खरस्नेहोष्णेरणस्वभावाः, ते पृथिव्यादिभावेन संहन्यन्तेइति मन्यन्तेतथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः, तेऽप्यध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्तेइति मन्यन्ते
तत्रेदमभिधीयतेयोऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतःअणुहेतुकश्च भूतभौतिकसंहतिरूपः, स्कन्धहेतुकश्च पञ्चस्कन्धीरूपःतस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे, तदप्राप्तिः स्यात्समुदायाप्राप्तिः समुदायभावानुपपत्तिरित्यर्थःकुतः ? समुदायिनामचेतनत्वात्चित्ताभिज्वलनस्य समुदायसिद्ध्यधीनत्वात्अन्यस्य कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात्निरपेक्षप्रवृत्त्यभ्युपगमे प्रवृत्त्यनुपरमप्रसङ्गात्आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात्क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्तेःतस्मात्समुदायानुपपत्तिः; समुदायानुपपत्तौ तदाश्रया लोकयात्रा लुप्येत ॥ १८ ॥

वैशेषिकं निरस्य वैनाशिकं निरस्यति -

समुदाय इति ।