आर्हतादिमतं हित्वा किमित्यनन्तरं वैनाशिकमतं निरस्यते, तत्राह -
वैशेषिकेति ।
परिमाणभेदेन देहादेराशुतरविनाशित्वाङ्गीकारादर्धवैनाशिकत्वं वैशेषिकस्येति । तन्निरासानन्तरं वैनाशिकत्वाविशेषाद्बुद्धिस्थं सर्ववैनाशिकनिरसनमित्यर्थः ।
वैशेषिका देहादेस्त्रिक्षणस्थायित्वमास्थिताः, तथापि तन्मते निरस्ते तन्मात्रमपि यैर्नेष्टं तन्मतमतिशयेन नापेक्षितव्यमित्याह -
नतरामिति ।
तथाप्येकेनैवाधिकरणेन तन्निराससम्भवे किमधिकरणद्वयेनेति, तत्राह -
स चेति ।
राद्धान्तस्यैक्याद्बहुप्रकारत्वायोगमाशङ्क्याह -
प्रतिपत्तीति ।
उपदेष्टुः सर्वज्ञस्यैक्यात्कथं शिष्याणां तद्भेदः, तत्राह, -
विनेयेति ।
मन्दमध्यमोत्तमधियां शिष्याणां भेदात्तद्भेदसिद्धिरित्यर्थः । प्रतिपत्तिभेदावधारणार्थो वाशब्दो न विकल्पार्थः ।
तानेव दर्शयति -
तत्रेति ।
सौत्रान्तिकवैभाषिकयोरवनान्तरभेदेऽपि सर्वास्तित्वसम्प्रतिपत्तेरेकीकृत्य त्रित्वमुपपादयति -
केचिदिति ।
इदानीमाद्याधिकरणस्य प्रवृत्तिप्रकारमाह -
तत्रेति ।
बाह्यं विशिनष्टि -
भूतमिति ।
आभ्यन्तरं कथयति -
चित्तमिति ।
बाह्यार्थवादिबौद्धराद्धान्तो विषयः । स किं प्रामाणिको भ्रान्तो वेति विप्रतिपत्तेः सन्देहे पूर्वपक्षं विवृणोति -
तत्रेत्यादिना ।
तस्य भ्रान्तत्वोपपादनेन समन्वयस्य तद्विरोधनिरासात्पादादिसङ्गतयः । तस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धिः, भ्रान्तत्वाद्विरोधस्याभावात्तत्सिद्धिरित्युभयत्र फलसिद्धिः । धातुशब्दः स्वभाववचनः । आदिशब्देनाप्तेजोवाय्वाकाशर्तवो गृह्यन्ते ।
विषयाणामिन्द्रियाणां च भौतिकशब्दवाच्यत्वमाह -
भौतिकमिति ।
पृथिव्यादयश्च परमाणुपुञ्जा एव नावयव्यारम्भोऽस्तीति वक्तुं परमाणुस्वरूपमाह -
चतुष्टये चेति ।
कठिनस्वभावाः पृथिवीपरमाणवः । स्नेहस्वभावा आप्यपरमाणवः । उष्णतास्वभावास्तेजःपरमाणवः । ईरणं चलनं तत्स्वभावा वायुपरमाणवः । तेषां चतुर्विधानां सर्गकाले संयोगापत्तिमाह -
त इति ।
भूतभौतिकानुक्त्वा चित्तचैत्तानाह -
तथेति ।
कर्मकरणव्युत्पत्तिभ्यां सविषयाणीन्द्रियाणि रूपस्कन्धः । रूप्यमाणपृथिव्यादीनां बाह्यत्वेऽपि देहस्थत्वादिन्द्रियसम्बन्धाच्चाध्यात्मिकत्वम् । अहमिति प्रत्ययो विज्ञानस्कन्धः । सुखादिप्रत्ययो वेदनास्कन्धः । गौरश्व इत्यादिशब्दसञ्जल्पितप्रत्ययः संज्ञास्कन्धः । संस्कारस्कन्धस्तु रागादिधर्माधर्मौ च । तत्र विज्ञानस्कन्धश्चित्तम् । इतरे चैत्ताः । उक्तानां स्कन्धानां समाहारं सङ्घातं दर्शयति -
तेऽपीति ।