उक्तस्य बाह्याध्यात्मिकभावजातस्याध्यक्षानुमानाभ्यां क्षणिकत्वे सिद्धे स्थायिनो ब्रह्मणो जगत्सर्गवादिनः समन्वयस्य विरोधोऽस्तीति प्राप्तमनूद्य सिद्धान्तयति -
तत्रेति ।
सूत्रं व्याचष्टे -
योऽयमिति ।
बाह्यत्वमाध्यात्मिकत्वं चोभयप्रकारत्वमुभयहेतुकमेवाह -
अण्विति ।
बाह्ये भूतभौतिकसमुदाये पृथिव्यादिपरमाणुहेतुके, रूपविज्ञानादिहेतुके चाध्यात्मिके समुदायेऽभिप्रेते तस्याप्राप्तिरयुक्तता स्यादित्याह -
तस्मिन्निति ।
संहन्यमानानामव्यवधाने सङ्घातानुपपत्तौ च न हेतुरित्याक्षिपति -
कुत इति ।
सङ्घातः स्वतो वा परतो वा । नाद्य इत्याह -
समुदायिनामिति ।
अण्वादीनामचैतन्यात्स्वातन्त्र्येण प्रवृत्त्यसिद्धेर्न स्वतःसङ्घातो घटते । तथाच क्षणिकपक्षे सर्गादौ सङ्घातायोगान्न तद्विरोधः समन्वयस्येत्यर्थः ।
परमपि सङ्घातकारणं चित्ताभिज्वलनमन्यद्वा । तत्राद्यं दूषयति -
चित्तेति ।
सिद्धे सङ्घाते चित्ताभिज्वलनं ततः सङ्घात इत्यन्योन्याश्रयान्न चित्ताभिज्वलनं तद्धेतुरित्यर्थः ।
अन्योऽपि संहन्ता चेतनोऽचेतनो वा । चेतनोऽपि भोक्ता प्रशासिता वा । द्विधापि स्थिरो वा क्षणिको वा । नाद्यः । अनभ्युपगमात् । न द्वितीयः । क्षणिकस्यान्वयव्यतिरेककालानवस्थानात् । भोक्तुश्च कारणविन्यासविशेषज्ञानायोगात् , सर्वज्ञस्य स्वतस्तज्ज्ञानेऽपि क्षणिकत्वात्कर्तृत्वासिद्धेरित्याह -
अन्यस्येति ।
अचेतनोऽपि संहन्ता धर्मादिर्वा स्यादालयविज्ञानसन्तानो वा । नाद्यः । तस्य पूर्ववच्चेतनाधीनप्रवृत्त्यनुपपत्तेः । स्वतश्चेत्प्रवृत्तिस्तदा धर्मादिप्रवृत्त्यनुपरमान्मोक्षासिद्धिरित्याह -
निरपेक्षेति ।
आलयविज्ञानसन्तानः संहन्तेति पक्षं प्रत्याह -
आशयस्येति ।
आशेरतेऽस्मिन्कर्मानुभववासना इत्याशयः सन्तानः । तस्यापि सन्तानिभ्योऽन्यत्वमनन्यत्वं वा । द्विधापि दुर्निरूपत्वान्न तस्य संहन्तृतेत्यर्थः ।
स खल्वन्यः स्थिरो वा क्षणिको वा । प्रथमेऽस्मदुक्तो भोक्तैव नामान्तरेणोक्तः स्यादिति मत्वा द्वितीये क्षणिकस्य व्यापारात्पूर्वं तत्काले वाऽभावात्कारणत्वाश्रयत्वयोरसिद्धिरित्याह -
क्षणिकत्वेति ।
एतेनानन्यत्वमपि प्रत्युक्तम् ।
सन्तानिनामपि क्षणिकत्वेनोक्तरीत्या व्यापारकारणत्वाद्ययोगात्तदभिन्नस्य सन्तानस्यापि तदसिद्धेरित्याह -
निर्व्यापारत्वादिति ।
संहन्तुरभावे फलितमाह -
तस्मादिति ।
यथाकथञ्चिल्लोकयात्रा सिध्यति चेत्किं समुदायेनेत्याशङ्क्याह -
समुदायेति ॥ १८ ॥