इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥
यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते, तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा । तस्यां चोपपद्यमानायां न किञ्चिदपरमपेक्षितव्यमस्ति । ते चाविद्यादयः — अविद्या संस्कारः विज्ञानं नाम रूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जातिः जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्ता — इत्येवंजातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः, क्वचित्प्रपञ्चिताः । सर्वेषामप्ययमविद्यादिकलापोऽप्रत्याख्येयः । तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्नः सङ्घात इति चेत् , तन्न । कस्मात् ? उत्पत्तिमात्रनिमित्तत्वात् — भवेदुपपन्नः सङ्घातः, यदि सङ्घातस्य किञ्चिन्निमित्तमवगम्येत; न त्ववगम्यते; यत इतरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्वपूर्वम् उत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवत् भवेत् , न तु सङ्घातोत्पत्तेः किञ्चिन्निमित्तं सम्भवति । नन्वविद्यादिभिरर्थादाक्षिप्यते सङ्घात इत्युक्तम्; अत्रोच्यते — यदि तावदयमभिप्रायः — अविद्यादयः सङ्घातमन्तरेणात्मानमलभमाना अपेक्षन्ते सङ्घातमिति, ततस्तस्य सङ्घातस्य किञ्चिन्निमित्तं वक्तव्यम् । तच्च नित्येष्वप्यणुष्वभ्युगम्यमानेष्वाश्रयाश्रयिभूतेषु च भोक्तृषु सत्सु न सम्भवतीत्युक्तं वैशेषिकपरीक्षायाम्; किमङ्ग पुनः क्षणिकेष्वणुषु भोक्तृरहितेष्वाश्रयाश्रयिशून्येषु वाभ्युपगम्यमानेषु सम्भवेत् । अथायमभिप्रायः — अविद्यादय एव सङ्घातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः । अथ मन्यसे — सङ्घाता एवानादौ संसारे सन्तत्यानुवर्तन्ते, तदाश्रयाश्चाविद्यादय इति, तदपि सङ्घातात्संघातान्तरमुत्पद्यमानं नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत । नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् । अनियमाभ्युपगमेऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् । उभयमप्यभ्युपगमविरुद्धम् । अपि च यद्भोगार्थः सङ्घातः स्यात् , स जीवो नास्ति स्थिरो भोक्ता इति तवाभ्युपगमः । ततश्च भोगो भोगार्थ एव, स नान्येन प्रार्थनीयः । तथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन भवितव्यम् । अन्येन चेत्प्रार्थ्येतोभयम् , भोगमोक्षकालावस्थायिना तेन भवितव्यम् । अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः । तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेत् , भवतु नाम; न तु सङ्घातः सिध्येत् , भोक्त्रभावात् — इत्यभिप्रायः ॥ १९ ॥