सूत्रं व्याकर्तुं वृत्तं कीर्तयति -
क्षणेति ।
मा तर्हि पूर्वक्षणस्योत्तरक्षणकारणत्वं भूत्तर्हि पूर्वक्षणाभावाद्वोत्तरक्षणस्योत्पत्तिस्तदभावे सति वा । नाद्यः, ‘नासतोऽदृष्टत्वात्’ इति वक्ष्यमाणत्वात् । द्वितीयमनुवदति -
अथेति ।
निर्हेतुफलोत्पत्तिं प्रत्याह -
तत इति ।
प्रतिज्ञोपरोधं स्फोरयति -
चतुर्विधानिति ।
आलम्बनप्रत्ययः समनन्तरप्रत्ययोऽधिपतिप्रत्यय आलोकश्चेति चतुर्विधा हेतवस्तान्प्रतीत्य प्राप्य चित्तं चैत्ताश्च तदभिन्नाः सुखादयो जायन्ते । तत्र नीलाभासस्य चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता । समनन्तरप्रत्ययात्पूर्वज्ञानाद्बोधरूपता । चक्षुषोऽधिपतिप्रत्ययाद्रूपग्रहणप्रतिनियमः । आलोकाद्धेतोः स्पष्टता । सुखादीनामपि चैत्तानां चित्ताभिन्नानामेतान्येव चत्वारि कारणानि । सेयं प्रतिज्ञा निर्हेतुफलोत्पत्तौ बाध्येतेत्यर्थः ।
तत्रैवातिप्रसङ्गं दोषान्तरमाह -
निर्हेतुकायां चेति ।
अन्यथेति सूत्रावयवं शङ्कात्वेन व्याकरोति -
अथेति ।
तथाच न प्रतिज्ञोपरोधातिप्रङ्गाविति शेषः ।
उत्पत्तेरुत्पद्यमानाभेदमभ्युपयन्तं प्रति सूत्रावयवेनोत्तरमाह -
तत इति ।
यौगपद्योपगमे का हानिः, तत्राह -
तथापीति ।
पूर्ववदत्र प्रतिज्ञोपरोधो नास्तीत्याशङ्क्याह -
क्षणिका इति ।
आद्यन्तवन्तो भावाः संस्काराः, संस्क्रियन्ते समुत्पद्यन्त इति व्युत्पत्तेः ॥ २१ ॥