ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥
अपि वैनाशिकाः कल्पयन्तिबुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेतितदपि त्रयम्प्रतिसंख्याप्रतिसंख्यानिरोधौ आकाशं चेत्याचक्षतेत्रयमपि चैतत् अवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्तेबुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यतेतद्विपरीतोऽप्रतिसंख्यानिरोधःआवरणाभावमात्रमाकाशमितितेषामाकाशं परस्तात्प्रत्याख्यास्यतिनिरोधद्वयमिदानीं प्रत्याचष्टेप्रतिसंख्याप्रतिसंख्यानिरोधयोः अप्राप्तिरसम्भव इत्यर्थःकस्मात् ? अविच्छेदात्एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ सन्तानगोचरौ वा स्याताम् , भावगोचरौ वा ? तावत्सन्तानगोचरौ सम्भवतः, सर्वेष्वपि सन्तानेषु सन्तानिनामविच्छिन्नेन हेतुफलभावेन सन्तानविच्छेदस्यासम्भवात्नापि भावगोचरौ सम्भवतः हि भावानां निरन्वयो निरुपाख्यो विनाशः सम्भवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात् , अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात्तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्तिः ॥ २२ ॥

सौगतमतासङ्गत्ये सूत्रस्य हेत्वन्तरपरत्वमाह -

अपि चेति ।

तदेव वक्तुं तन्मतमनुभाषते -

वैनाशिका इति ।

संस्कृतमुत्पाद्यं त्रयादन्यदित्युक्तम् । किं तत्त्रयं तदाह -

तदपीति ।

तस्यापि क्षणिकत्वादुत्पाद्यत्वाच्च नान्यत्वप्रतियोगित्वमित्यशङ्क्याह -

त्रयमपीति ।

वस्तुप्रतियोगिकान्यत्वं वस्त्वन्तरस्यापीत्याशङ्क्योक्तम् -

अभावेति ।

अभावस्यापि प्रतियोगिद्वारा सोपाख्यत्वमित्याशङ्क्याह -

निरुपाख्यमिति ।

प्रतीपा सङ्ख्या प्रतिसङ्ख्या सन्तमिममसन्तं करोमीति धीस्तया निरोधस्तथेति व्युत्पादयति -

बुद्धीति ।

स्तम्भादीनां प्रतिक्षणं स्वारसिको विनाश इत्यप्रतिसङ्ख्यानिरोधं व्याचष्टे -

तद्विपरीत इति ।

आवरणाभावव्यङ्गयं शब्दवद्द्रव्यं व्यवच्छेत्तुं मात्रपदम् ।

पराभ्युपगममुक्त्वा सूत्रविषयं परिशिनष्टि -

तेषामिति ।

तात्पर्यमुक्त्वा प्रतिज्ञां विभजते -

प्रतिसङ्ख्येति ।

तन्न प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

हेतुं व्याख्यातुं विकल्पयति -

एतौ हीति ।

भावशब्दः सन्तानिवाची । तत्राद्यं दूषयति -

न तावदिति ।

योऽसावन्त्यः सन्तानी स किञ्चिदारभते न वा । नाद्यः, अन्त्यत्वासिद्धेः, सन्तानानुच्छेदाच्च । द्वितीयेऽर्थक्रियाभावात्तदसत्त्वे तज्जनकमपि सर्वमसदित्यनेन क्रमेणासन्तः सर्वे सन्तानिनः स्युः । न च विजातीयक्षणोत्पादकत्वेनार्थक्रियाकारित्वं सजातीयानुत्पादकत्वेन च सन्तानोच्छित्तिः, एकस्मिन्नेव सन्तानेऽनेकसन्तानप्रसङ्गात् । अतः सन्तानानुच्छेदान्न तद्गोचरौ निरोधावित्यर्थः ।

न द्वितीय इत्याह -

नापीति ।

निरन्वयं व्याचष्टे -

निरुपाख्य इति ।

घटकपालादिषु सर्वत्र सैवेयं मृदिति प्रत्यभिज्ञानादन्वयिनो नाशाभावावगतेरिति हेतुमाह -

सर्वास्विति ।

बीजाङ्कुरादानामुत्तरोत्तरकार्ये प्रत्यभिज्ञानाभावादन्वयिविच्छित्तिरित्याशङ्क्याह -

अस्पष्टेति ।

तास्वपि नान्वयी विच्छिद्यते, घटकपालादौ दृष्टेनान्वय्यविच्छेदेन विवादस्थलेऽपि तदनुमानात् । विमतं न निरन्वयविनाशि, कार्यत्वात् , घटादिवदित्यर्थः ।

अन्वय्यविच्छेदेऽपि विच्छेदोऽवस्थानामात्यन्तिकःस्यादित्याशङ्क्य नावस्था निरन्वयनाशिन्यस्तासामनिर्वाच्यतयान्वयिमात्रत्वात्तस्य च सत्त्वेनाधिष्ठानत्वादनाशादित्युपसंहरति -

तस्मादिति ॥ २२ ॥