मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
द्वितीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
आकाशे चाविशेषात् ॥ २४ ॥
यच्च
तेषामेवाभिप्रेतं
निरोधद्वयमाकाशं
च
निरुपाख्यमिति
—
तत्र
निरोधद्वयस्य
निरुपाख्यत्वं
पुरस्तान्निराकृतम्
।
आकाशस्येदानीं
निराक्रियते
।
आकाशे
चायुक्तो
निरुपाख्यत्वाभ्युपगमः
,
प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव
वस्तुत्वप्रतिपत्तेरविशेषात्
।
आगमप्रामाण्यात्ता
वत्
‘
आत्मन
आकाशः
सम्भूतः
’ (तै. उ. २ । १ । १)
इत्यादिश्रुतिभ्य
आकाशस्य
च
वस्तुत्वप्रसिद्धिः
।
विप्रतिपन्नान्प्र
ति
तु
शब्दगुणानुमेयत्वं
वक्तव्यम्
—
गन्धादीनां
गुणानां
पृथिव्यादिवस्त्वाश्रयत्वदर्शनात्
।
अपि
च
आवरणाभावमात्रमाकाशमिच्छताम्
,
एकस्मिन्सुपर्णे
पतत्यावरणस्य
विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतोऽनवकाशत्वप्रसङ्गः
।
यत्रा
वरणाभावस्तत्र
पतिष्यतीति
चेत्
—
येनावरणाभावो
विशेष्यते
,
तत्तर्हि
वस्तुभूतमेवाकाशं
स्यात्
,
न
आवरणाभावमात्रम्
।
अपि
च
आवरणाभावमात्रमाकाशं
मन्यमानस्य
सौगतस्य
स्वाभ्युपगमविरोधः
प्रसज्येत
।
सौगते
हि
समये
‘
पृथिवी
भगवः
किंसन्निश्रया
’
इत्यस्मिन्प्रश्नप्रतिवचनप्रवाहे
पृथिव्यादीनामन्ते
‘
वायुः
किंसन्निश्रयः
’
इत्यस्य
प्रश्नस्य
प्रतिवचनं
भवति
— ‘
वायुराकाशसन्निश्रयः
’
इति
।
तदाकाशस्यावस्तुत्वे
न
समञ्जसं
स्यात्
।
तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम्
।
अपि
च
निरोधद्वयमाकाशं
च
त्रयमप्येतन्निरुपाख्यमवस्तु
नित्यं
चेति
विप्रतिषिद्धम्
।
न
ह्यवस्तुनो
नित्यत्वमनित्यत्वं
वा
सम्भवति
,
वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य
।
धर्मधर्मिभावे
हि
घटादिवद्वस्तुत्वमेव
स्यात्
,
न
निरुपाख्यत्वम्
॥ २४ ॥
आकाशे चेति
;
निरोधद्वयं निरस्याकाशं निरस्यति -
आकाशे चेति ।