अनुस्मृतेश्च ॥ २५ ॥
अपि च वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन् उपलब्धुरपि क्षणिकतामभ्युपेयात् । न च सा सम्भवति; अनुस्मृतेः — अनुभवम् उपलब्धिमनूत्पद्यमानं स्मरणमेव अनुस्मृतिः । सा चोपलब्ध्येककर्तृका सती सम्भवति, पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात् । कथं हि ‘अहमदोऽद्राक्षम् — इदं पश्यामि’ इति च पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात् । अपि च दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धः — ‘अहमदोऽद्राक्षम् — इदं पश्यामि’ इति । यदि हि तयोर्भिन्नः कर्ता स्यात् , ततः ‘अहं स्मरामि — अद्राक्षीदन्यः’ इति प्रतीयात्; न त्वेवं प्रत्येति कश्चित् । यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोकोऽवगच्छति — ‘स्मराम्यहम् — असावदोऽद्राक्षीत्’ इति । इह तु ‘अहमदोऽद्राक्षम्’ इति दर्शनस्मरणयोर्वैनाशिकोऽप्यात्मानमेवैकं कर्तारमवगच्छति; न ‘नाहम्’ इत्यात्मनो दर्शनं निर्वृत्तं निह्नुते — यथा अग्निरनुष्णोऽप्रकाश इति वा । तत्रैवं सत्येकस्य दर्शनस्मरणलक्षणक्षणद्वयसम्बन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात् । तथा अनन्तरामनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकाम् आ उत्तमादुच्छ्वासात् , अतीताश्च प्रतिपत्तीः आ जन्मन आत्मैककर्तृकाः प्रतिसन्दधानः, कथं क्षणभङ्गवादी वैनाशिको नापत्रपेत ? स यदि ब्रूयात् सादृश्यादेतत्सम्पत्स्यत इति, तं प्रतिब्रूयात् — तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्षणभङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात् , सादृश्यनिमित्तं प्रतिसन्धानमिति मिथ्याप्रलाप एव स्यात् । स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथा सत्येकस्य क्षणद्वयावस्थानात्क्षणिकत्वप्रतिज्ञा पीड्येत । ‘तेनेदं सदृशम्’ इति प्रत्ययान्तरमेवेदम् , न पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमिति चेत् , न; तेन इदम् इति भिन्नपदार्थोपादानात् । प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात् , ‘तेनेदं सदृशम्’ इति वाक्यप्रयोगोऽनर्थकः स्यात् , सादृश्यम् इत्येव प्रयोगः प्राप्नुयात् । यदा हि लोकप्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते, तदा स्वपक्षसिद्धिः परपक्षदोषो वा उभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन न बुद्धिसन्तानमारोहति । एवमेवैषोऽर्थः इति निश्चितं यत् , तदेव वक्तव्यम् । ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् । न चायं सादृश्यात्संव्यवहारो युक्तः; तद्भावावगमात् , तत्सदृशभावानवगमाच्च । भवेदपि कदाचिद्बाह्यवस्तुनि विप्रलम्भसम्भवात् ‘तदेवेदं स्यात् , तत्सदृशं वा’ इति सन्देहः । उपलब्धरि तु सन्देहोऽपि न कदाचिद्भवति — ‘स एवाहं स्यां तत्सदृशो वा’ इति, ‘य एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामि’ इति निश्चिततद्भावोपलम्भात् । तस्मादप्यनुपपन्नो वैनाशिकसमयः ॥ २५ ॥