नासतोऽदृष्टत्वात् ॥ २६ ॥
इतश्चानुपपन्नो वैनाशिकसमयः, यतः स्थिरमनुयायिकारणमनभ्युपगच्छताम् अभावाद्भावोत्पत्तिरित्येतदापद्येत । दर्शयन्ति चाभावाद्भावोत्पत्तिम् — ‘नानुपमृद्य प्रादुर्भावात्’ इति । विनष्टाद्धि किल बीजादङ्कुर उत्पद्यते, तथा विनष्टात्क्षीराद्दधि, मृत्पिण्डाच्च घटः । कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येत, अविशेषात्सर्वं सर्वत उत्पद्येत । तस्मादभावग्रस्तेभ्यो बीजादिभ्योऽङ्कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिः — इति मन्यन्ते । तत्रेदमुच्यते — ‘नासतोऽदृष्टत्वात्’ इति । नाभावाद्भाव उत्पद्यते । यद्यभावाद्भाव उत्पद्येत, अभावत्वाविशेषात्कारणविशेषाभ्युपगमोऽनर्थकः स्यात् । न हि, बीजादीनामुपमृदितानां योऽभावस्तस्याभावस्य शशविषाणादीनां च, निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषोऽस्ति; येन, बीजादेवाङ्कुरो जायते क्षीरादेव दधि — इत्येवंजातीयकः कारणविशेषाभ्युपगमोऽर्थवान्स्यात् । निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्योऽप्यङ्कुरादयो जायेरन्; न चैवं दृश्यते । यदि पुनरभावस्यापि विशेषोऽभ्युपगम्येत — उत्पलादीनामिव नीलत्वादिः, ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्रसज्येत । नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात् , अभावत्वादेव, शशविषाणादिवत् । अभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात्; न चैवं दृश्यते, सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् । न च मृदन्विताः शरावादयो भावास्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते । मृद्विकारानेव तु मृदन्वितान्भावान् लोकः प्रत्येति । यत्तूक्तम् — स्वरूपोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वानुपपत्तेरभावाद्भावोत्पत्तिर्भवितुमर्हतीति, तद्दुरुक्तम् , स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकार्यकारणभावदर्शनात् । येष्वपि बीजादिषु स्वरूपोपमर्दो लक्ष्यते, तेष्वपि नासावुपमृद्यमाना पूर्वावस्था उत्तरावस्थायाः कारणमभ्युपगम्यते, अनुपमृद्यमानानामेवानुयायिनां बीजाद्यवयवानामङ्कुरादिकारणभावाभ्युपगमात् । तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात् , सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनात् , अनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः । अपि च चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यते — इत्यभ्युपगम्य, पुनरभावाद्भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपह्नुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते ॥ २६ ॥