ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥
यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवं सत्युदासीनानामनीहमानानामपि जनानामभिमतसिद्धिः स्यात् , अभावस्य सुलभत्वात्कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात्कुलालस्य मृत्संस्क्रियायामप्रयतमानस्यापि अमत्रोत्पत्तिःतन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभःस्वर्गापवर्गयोश्च कश्चित्कथञ्चित्समीहेत चैतद्युज्यते अभ्युपगम्यते वा केनचित्तस्मादप्यनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः ॥ २७ ॥

अभावकारणत्वे कारणविशेषोपादाने प्रवृत्तिरयुक्तेत्युक्तम् । इदानीं प्रवृत्तिमात्रमपि न युक्तमित्याह -

उदासीनानामिति ।