ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥
यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवं सत्युदासीनानामनीहमानानामपि जनानामभिमतसिद्धिः स्यात् , अभावस्य सुलभत्वात्कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात्कुलालस्य मृत्संस्क्रियायामप्रयतमानस्यापि अमत्रोत्पत्तिःतन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभःस्वर्गापवर्गयोश्च कश्चित्कथञ्चित्समीहेत चैतद्युज्यते अभ्युपगम्यते वा केनचित्तस्मादप्यनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः ॥ २७ ॥

सूत्रं विभजते -

यदीति ।

अभाववादे सर्वलौकिकव्यवहारासिद्धिमुदाहरणैर्दर्शयति -

कृषीति ।

पारलौकिकव्यवहारोऽपि परमते न स्यादित्याह -

स्वर्गेति ।

उभयविधव्यवहारासत्त्वप्रसङ्गस्येष्टत्वं प्रत्याचष्टे -

न चेति ।

सूत्रद्वयार्थमुपसंहरति -

तस्मादिति ॥ २७ ॥