नाभाव उपलब्धेः ॥ २८ ॥
एवं बाह्यार्थवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठते — केषाञ्चित्किल विनेयानां बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचिता । नासौ सुगताभिप्रायः । तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः । तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते, सत्यपि बाह्येऽर्थे बुद्ध्यारोहमन्तरेण प्रमाणादिव्यवहारानवतारात् । कथं पुनरवगम्यते — अन्तस्थ एवायं सर्वव्यवहारः, न विज्ञानव्यतिरिक्तो बाह्योऽर्थोऽस्तीति ? तदसम्भवादित्याह — स हि बाह्योऽर्थोऽभ्युपगम्यमानः परमाणवो वा स्युः, तत्समूहा वा स्तम्भादयः स्युः । तत्र न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति, परमाण्वाभासज्ञानानुपपत्तेः । नापि तत्समूहाः स्तम्भादयः, तेषां परमाणुभ्योऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात् । एवं जात्यादीनपि प्रत्याचक्षीत । अपि च अनुभवमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः — स्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् । अङ्गीकृते च तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना । अपि च सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति । न ह्यनयोरेकस्यानुपलम्भेऽन्यस्योपलम्भोऽस्ति । न चैतत्स्वभावविवेके युक्तम् , प्रतिबन्धकारणाभावात् । तस्मादप्यर्थाभावः । स्वप्नादिवच्चेदं द्रष्टव्यम् — यथा हि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति । एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते, प्रत्ययत्वाविशेषात् । कथं पुनरसति बाह्यार्थे प्रत्ययवैचित्र्यमुपपद्यते ? वासनावैचित्र्यादित्याह — अनादौ हि संसारे बीजाङ्कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते । अपि च अन्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते, स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्य उभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात् , अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मया अनभ्युपगम्यमानत्वात् । तस्मादप्यभावो बाह्यार्थस्येति । एवं प्राप्ते ब्रूमः —
‘नाभाव उपलब्धेरि’ ति । न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते । कस्मात् ? उपलब्धेः — उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थः — स्तम्भः कुड्यं घटः पट इति । न चोपलभ्यमानस्यैवाभावो भवितुमर्हति । यथा हि कश्चिद्भुञ्जानो भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयात् — ‘नाहं भुञ्जे न वा तृप्यामि’ इति — तद्वदिन्द्रियसन्निकर्षेण स्वयमुपलभमान एव बाह्यमर्थम् , ‘नाहमुपलभे न च सोऽस्ति’ इति ब्रुवन् , कथमुपादेयवचनः स्यात् । ननु नाहमेवं ब्रवीमि — ‘न कञ्चिदर्थमुपलभे’ इति । किं तु ‘उपलब्धिव्यतिरिक्तं नोपलभे’ इति ब्रवीमि । बाढमेवं ब्रवीषि निरङ्कुशत्वात्ते तुण्डस्य, न तु युक्त्युपेतं ब्रवीषि, यत उपलब्धिव्यतिरेकोऽपि बलादर्थस्याभ्युपगन्तव्यः, उपलब्धेरेव । न हि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते । उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्सर्वे लौकिका उपलभन्ते । अतश्च एवमेव सर्वे लौकिका उपलभन्ते, यत् प्रत्याचक्षाणा अपि बाह्यमर्थम् एवमाचक्षते — ‘यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासते’ इति — तेऽपि हि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः, प्रत्याख्यातुकामाश्च बाह्यमर्थम् , ‘बहिर्वत्’ इति वत्कारं कुर्वन्ति । इतरथा हि कस्मात् ‘बहिर्वत्’ इति ब्रूयुः । न हि ‘विष्णुमित्रो वन्ध्यापुत्रवदवभासते’ इति कश्चिदाचक्षीत । तस्मात् यथानुभवं तत्त्वम् अभ्युपगच्छद्भिः बहिरेवावभासते इति युक्तम् अभ्युपगन्तुम् , न तु बहिर्वत् अवभासत इति । ननु बाह्यस्यार्थस्यासम्भवात् बहिर्वदवभासते इत्यध्यवसितम् । नायं साधुरध्यवसायः, यतः प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ सम्भवासम्भवाववधार्येते, न पुनः सम्भवासम्भवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती । यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते, तत्सम्भवति । यत्तु न केनचिदपि प्रमाणेनोपलभ्यते, तन्न सम्भवति । इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योऽर्थ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न सम्भवतीत्युच्येत — उपलब्धेरेव । न च ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसारूप्यानुपपत्तेः, बहिरुपलब्धेश्च विषयस्य । अत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोरुपायोपेयभावहेतुकः, न अभेदहेतुकः — इत्यभ्युपगन्तव्यम् । अपि च घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपटयोर्भेदः, न विशेष्यस्य ज्ञानस्य — यथा शुक्लो गौः कृष्णो गौरिति शौक्ल्यकार्ष्ण्ययोरेव भेदः, न गोत्वस्य । द्वाभ्यां च भेद एकस्य सिद्धो भवति, एकस्माच्च द्वयोः । तस्मादर्थज्ञानयोर्भेदः । तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् । अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदः, न विशेषणस्य घटस्य — यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदः, न विशेषणस्य क्षीरस्य, तद्वत् । अपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैव उपक्षीणयोः इतरेतरग्राह्यग्राहकत्वानुपपत्तिः । ततश्च — विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगताः — ता हीयेरन् । किञ्चान्यत् — विज्ञानं विज्ञानमित्यभ्युपगच्छता बाह्योऽर्थः स्तम्भः कुड्यमित्येवंजातीयकः कस्मान्नाभ्युपगम्यत इति वक्तव्यम् । विज्ञानमनुभूयत इति चेत् , बाह्योऽप्यर्थोऽनुभूयत एवेति युक्तमभ्युपगन्तुम् । अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते, न तथा बाह्योऽप्यर्थ इति चेत् — अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छसि — अग्निरात्मानं दहतीतिवत् । अविरुद्धं तु लोकप्रसिद्धम् — स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्योऽर्थोऽनुभूयत इति नेच्छसि; अहो पाण्डित्यं महद्दर्शितम् । न चार्थाव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेव । ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्वे, तदप्यन्येन ग्राह्यं तदप्यन्येन — इत्यनवस्था प्राप्नोति । अपि च प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति तदुभयमप्यसत् । विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः, साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः, स्वयंसिद्धस्य च साक्षिणोऽप्रत्याख्येयत्वात् । किञ्चान्यत् — प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथते इति ब्रुवता अप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् — शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् । बाढमेवम् — अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वया अनुज्ञायत इति चेत् , न; अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात् । अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते । साक्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपता स्वयं प्रथते विज्ञानम् इत्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् , न; विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात् । अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम् ॥ २८ ॥