रूपादिहीनं ब्रह्म जगदुपादानमिति वदतः समन्वयस्य क्षणिकं ज्ञानं नीलाद्याकारमिति योगाचारमतविरोधोऽस्ति न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे सङ्गतिगर्भं पूर्वपक्षमवतारयति -
एवमिति ।
विज्ञानवादस्य भ्रान्तिमूलतया समन्वयस्य तदविरोधोक्तेः सङ्गतयः । पूर्वपक्षे विज्ञानवादस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धिः, सिद्धान्तेऽस्य भ्रान्तत्वात्तद्विरोधस्याभासत्वात्तत्सिद्धिरिति फलभेदः । बाह्यार्थवादिषु प्रत्युक्तेषु समानन्यायतया विज्ञानवादिनोऽपि प्रत्युक्तिसम्भवात्कथं पृथगुत्थानमित्याशङ्क्य तेभ्यो विज्ञानमात्रवादिनः सुगताभिप्रायत्वेन विशेषमाह -
केषाञ्चिदिति ।
हीनधियामिति यावत् ।
बाह्येऽर्थे सुगतस्यानिच्छायां किलकारः । ‘देशना लोकनाथानां सत्त्वाशयवशानुगाः’ इति न्यायेनाह -
तदिति ।
कस्तर्हि तस्याभिप्रायः, तत्राह -
तस्येति ।
ननु मानमेयादिभेदोपगमे कथं विज्ञानमात्रवादोऽन्यथा कथं व्यवहारसिद्धिः, तत्राह -
तस्मिन्निति ।
ज्ञानमेव कल्पितनीलाद्याकारतया मेयमवभासात्मतया फलं तच्छक्त्यात्मना मानं तदाश्रयतया मातेति विज्ञानवादेऽपि कल्पितमानादिभेदमुपेत्य सर्वव्यवहारसिद्धिरित्यर्थः ।
किञ्चार्थसारूप्यात्मना मानमवभासात्मना फलमिति सौत्रान्तिकाः । अनवभासव्यावृत्त्या फलं तच्छक्त्या मानमिति वैभाषिकाः । तेन तयोर्बाह्यमर्थमिच्छतोरपि कल्पितो भेदः क्षणिकस्यात्मनो द्वयकालानवस्थानात् । तद्युक्तं विज्ञानवादे कल्पितभेदेनैव सर्वव्यवहारसाधनमित्याह -
सतीति ।
उक्तमर्थं युक्त्या द्रढयितुं पृच्छति -
कथमिति ।
विमतं न ज्ञानातिरिक्तं, तदतिरेकेणानिरूप्यत्वात् , नरविषाणवदित्याह -
तदिति ।
तत्रासिद्धिमुद्धर्तुं विकल्पयति -
स हीति ।
एकस्थूलनीलाभासज्ञानस्य तद्विपरीतपरमाणुगोचरतायोगान्न परमाणवस्तावत्तदालम्बनमित्याह -
तत्रेति ।
द्वितीयं प्रत्याह -
नापीति ।
स्तम्भाद्यवयविनां परमाणुभ्यो भेदे गवाश्ववदत्यन्तवैलक्षण्यम् , अभेदे परमाणुमात्रतया स्थूलरूपेणावभासासिद्धिः, परमाणूनामतथात्वादित्याह -
तेषामिति ।
अवयवावयविरूपो बाह्यार्थो नास्ति चेन्मा भूत् , जातिव्यक्त्यादिरूपस्तु स्यादित्याशङ्क्याह -
एवमिति ।
जात्यादीनां व्यक्त्यादीनां चात्यन्तभिन्नत्वे स्वातन्त्र्यप्रसङ्गादत्यन्ताभिन्नत्वे तद्वदेवातद्भावाद्भिन्नाभिन्नत्वस्य विरुद्धत्वादवयवावयविभेदवज्जातिव्यक्त्यादिेभेदोऽपि नास्तीत्यर्थः ।
दृष्टस्य सर्वस्य विचारासहत्वाददृष्टसत्त्वे मानाभावान्न बाह्यालम्बनाः प्रत्यया इत्युक्तम् । सम्प्रति तेषां बाह्यानालम्बनत्वे हेत्वन्तरमाह -
अपि चेति ।
ज्ञानगतविशेषदृष्ट्यनुपपत्त्या नीलाद्याकारता तस्य सिद्धा, तथा च ज्ञानाकारस्यैव विषयत्वाद्व्यर्था बाह्यार्थकल्पना गौरवादित्यर्थः ।
इतश्च ज्ञेयं ज्ञानान्नान्यदित्याह -
अपि चेति ।
यद्येन नियतसहोपलम्भनं तत्तेनाभिन्नं, यथैकेन चन्द्रमसा द्वितीयश्चन्द्रमाः, नियतसहोपलम्भनं च ज्ञेयं ज्ञानेनेत्यर्थः ।
सहोपलम्भनियममेव स्फोरयति -
न हीति ।
ज्ञानज्ञेययोः स्वभावभेदेऽपि ग्राह्यग्रहकत्वान्नियमः स्यादित्याशङ्क्याह -
न चेति ।
क्षणिकस्य ज्ञानस्य ज्ञेयसम्बन्धे हेत्वभावाद्ग्राह्यग्राहकत्वेनोक्तनियमासिद्धिरित्यर्थः ।
‘सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये ‘ इत्युक्तमुपसंहरति -
तस्मादिति ।
यो यः प्रत्ययः स सर्वो बाह्यानालम्बनः, यथा स्वप्नादिप्रत्ययः तथा चैष विमतः प्रत्यय इत्याह -
स्वप्नेति ।
दृष्टान्तस्य साध्यवैकल्यं परिहरति -
यथेति ।
निर्देशमनुमानं निगमयति -
एवमिति ।
प्रत्ययवैचित्र्यानुपपत्तिरूपार्थापत्तिबाधितमनुमानमिति शङ्कते -
कथमिति ।
अनादिसन्ततिपतितमसंविदितरूपं ज्ञानमेव वासना तद्वशादनेकव्यवधानेनापि नीलादिवासितमेव ज्ञानमुत्पद्यते कार्पासरक्ततावदित्यन्यथोपपत्तिमाह -
वासनेति ।
वासनावैचित्र्याज्ज्ञानवैचित्र्यं ततश्च तद्वैचित्र्यमित्यन्योन्याश्रयत्वमाशङ्क्याह -
अनादौ हीति ।
अन्वयव्यतिरेकाभ्यामपि वासनावैचित्र्यमेव ज्ञानवैचित्र्यहेतुर्नार्थवैचित्र्यमित्याह -
अपि चेति ।
पूर्वानुभववासनाभावेऽप्यपूर्वार्थसंनिधाने ज्ञानवैचित्र्यदर्शनादन्वयव्यतिरेकासिद्धिरित्याशङ्क्याह -
स्वप्नेति ।
अन्वयमुक्त्वा व्यतिरेकमाह -
अन्तरेणेति ।
ज्ञानातिरिक्तज्ञेयस्योक्तरीत्या विचारासहत्वात्क्षणिकज्ञानमात्रवादस्य प्रामाणिकत्वादर्थान्नित्यज्ञानाद्ब्रह्यणो जगत्सर्गवादिनः समन्वयस्य विरोधोऽस्तीत्युपसंहरति -
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।