ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
नाभाव उपलब्धेः ॥ २८ ॥
एवं बाह्यार्थवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठते — केषाञ्चित्किल विनेयानां बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचिता । नासौ सुगताभिप्रायः । तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः । तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते, सत्यपि बाह्येऽर्थे बुद्ध्यारोहमन्तरेण प्रमाणादिव्यवहारानवतारात् । कथं पुनरवगम्यते — अन्तस्थ एवायं सर्वव्यवहारः, न विज्ञानव्यतिरिक्तो बाह्योऽर्थोऽस्तीति ? तदसम्भवादित्याह — स हि बाह्योऽर्थोऽभ्युपगम्यमानः परमाणवो वा स्युः, तत्समूहा वा स्तम्भादयः स्युः । तत्र न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति, परमाण्वाभासज्ञानानुपपत्तेः । नापि तत्समूहाः स्तम्भादयः, तेषां परमाणुभ्योऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात् । एवं जात्यादीनपि प्रत्याचक्षीत । अपि च अनुभवमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः — स्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् । अङ्गीकृते च तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना । अपि च सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति । न ह्यनयोरेकस्यानुपलम्भेऽन्यस्योपलम्भोऽस्ति । न चैतत्स्वभावविवेके युक्तम् , प्रतिबन्धकारणाभावात् । तस्मादप्यर्थाभावः । स्वप्नादिवच्चेदं द्रष्टव्यम् — यथा हि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति । एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते, प्रत्ययत्वाविशेषात् । कथं पुनरसति बाह्यार्थे प्रत्ययवैचित्र्यमुपपद्यते ? वासनावैचित्र्यादित्याह — अनादौ हि संसारे बीजाङ्कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते । अपि च अन्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते, स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्य उभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात् , अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मया अनभ्युपगम्यमानत्वात् । तस्मादप्यभावो बाह्यार्थस्येति । एवं प्राप्ते ब्रूमः —

रूपादिहीनं ब्रह्म जगदुपादानमिति वदतः समन्वयस्य क्षणिकं ज्ञानं नीलाद्याकारमिति योगाचारमतविरोधोऽस्ति न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे सङ्गतिगर्भं पूर्वपक्षमवतारयति -

एवमिति ।

विज्ञानवादस्य भ्रान्तिमूलतया समन्वयस्य तदविरोधोक्तेः सङ्गतयः । पूर्वपक्षे विज्ञानवादस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धिः, सिद्धान्तेऽस्य भ्रान्तत्वात्तद्विरोधस्याभासत्वात्तत्सिद्धिरिति फलभेदः । बाह्यार्थवादिषु प्रत्युक्तेषु समानन्यायतया विज्ञानवादिनोऽपि प्रत्युक्तिसम्भवात्कथं पृथगुत्थानमित्याशङ्क्य तेभ्यो विज्ञानमात्रवादिनः सुगताभिप्रायत्वेन विशेषमाह -

केषाञ्चिदिति ।

हीनधियामिति यावत् ।

बाह्येऽर्थे सुगतस्यानिच्छायां किलकारः । ‘देशना लोकनाथानां सत्त्वाशयवशानुगाः’ इति न्यायेनाह -

तदिति ।

कस्तर्हि तस्याभिप्रायः, तत्राह -

तस्येति ।

ननु मानमेयादिभेदोपगमे कथं विज्ञानमात्रवादोऽन्यथा कथं व्यवहारसिद्धिः, तत्राह -

तस्मिन्निति ।

ज्ञानमेव कल्पितनीलाद्याकारतया मेयमवभासात्मतया फलं तच्छक्त्यात्मना मानं तदाश्रयतया मातेति विज्ञानवादेऽपि कल्पितमानादिभेदमुपेत्य सर्वव्यवहारसिद्धिरित्यर्थः ।

किञ्चार्थसारूप्यात्मना मानमवभासात्मना फलमिति सौत्रान्तिकाः । अनवभासव्यावृत्त्या फलं तच्छक्त्या मानमिति वैभाषिकाः । तेन तयोर्बाह्यमर्थमिच्छतोरपि कल्पितो भेदः क्षणिकस्यात्मनो द्वयकालानवस्थानात् । तद्युक्तं विज्ञानवादे कल्पितभेदेनैव सर्वव्यवहारसाधनमित्याह -

सतीति ।

उक्तमर्थं युक्त्या द्रढयितुं पृच्छति -

कथमिति ।

विमतं न ज्ञानातिरिक्तं, तदतिरेकेणानिरूप्यत्वात् , नरविषाणवदित्याह -

तदिति ।

तत्रासिद्धिमुद्धर्तुं विकल्पयति -

स हीति ।

एकस्थूलनीलाभासज्ञानस्य तद्विपरीतपरमाणुगोचरतायोगान्न परमाणवस्तावत्तदालम्बनमित्याह -

तत्रेति ।

द्वितीयं प्रत्याह -

नापीति ।

स्तम्भाद्यवयविनां परमाणुभ्यो भेदे गवाश्ववदत्यन्तवैलक्षण्यम् , अभेदे परमाणुमात्रतया स्थूलरूपेणावभासासिद्धिः, परमाणूनामतथात्वादित्याह -

तेषामिति ।

अवयवावयविरूपो बाह्यार्थो नास्ति चेन्मा भूत् , जातिव्यक्त्यादिरूपस्तु स्यादित्याशङ्क्याह -

एवमिति ।

जात्यादीनां व्यक्त्यादीनां चात्यन्तभिन्नत्वे स्वातन्त्र्यप्रसङ्गादत्यन्ताभिन्नत्वे तद्वदेवातद्भावाद्भिन्नाभिन्नत्वस्य विरुद्धत्वादवयवावयविभेदवज्जातिव्यक्त्यादिेभेदोऽपि नास्तीत्यर्थः ।

दृष्टस्य सर्वस्य विचारासहत्वाददृष्टसत्त्वे मानाभावान्न बाह्यालम्बनाः प्रत्यया इत्युक्तम् । सम्प्रति तेषां बाह्यानालम्बनत्वे हेत्वन्तरमाह -

अपि चेति ।

ज्ञानगतविशेषदृष्ट्यनुपपत्त्या नीलाद्याकारता तस्य सिद्धा, तथा च ज्ञानाकारस्यैव विषयत्वाद्व्यर्था बाह्यार्थकल्पना गौरवादित्यर्थः ।

इतश्च ज्ञेयं ज्ञानान्नान्यदित्याह -

अपि चेति ।

यद्येन नियतसहोपलम्भनं तत्तेनाभिन्नं, यथैकेन चन्द्रमसा द्वितीयश्चन्द्रमाः, नियतसहोपलम्भनं च ज्ञेयं ज्ञानेनेत्यर्थः ।

सहोपलम्भनियममेव स्फोरयति -

न हीति ।

ज्ञानज्ञेययोः स्वभावभेदेऽपि ग्राह्यग्रहकत्वान्नियमः स्यादित्याशङ्क्याह -

न चेति ।

क्षणिकस्य ज्ञानस्य ज्ञेयसम्बन्धे हेत्वभावाद्ग्राह्यग्राहकत्वेनोक्तनियमासिद्धिरित्यर्थः ।

‘सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये ‘ इत्युक्तमुपसंहरति -

तस्मादिति ।

यो यः प्रत्ययः स सर्वो बाह्यानालम्बनः, यथा स्वप्नादिप्रत्ययः तथा चैष विमतः प्रत्यय इत्याह -

स्वप्नेति ।

दृष्टान्तस्य साध्यवैकल्यं परिहरति -

यथेति ।

निर्देशमनुमानं निगमयति -

एवमिति ।

प्रत्ययवैचित्र्यानुपपत्तिरूपार्थापत्तिबाधितमनुमानमिति शङ्कते -

कथमिति ।

अनादिसन्ततिपतितमसंविदितरूपं ज्ञानमेव वासना तद्वशादनेकव्यवधानेनापि नीलादिवासितमेव ज्ञानमुत्पद्यते कार्पासरक्ततावदित्यन्यथोपपत्तिमाह -

वासनेति ।

वासनावैचित्र्याज्ज्ञानवैचित्र्यं ततश्च तद्वैचित्र्यमित्यन्योन्याश्रयत्वमाशङ्क्याह -

अनादौ हीति ।

अन्वयव्यतिरेकाभ्यामपि वासनावैचित्र्यमेव ज्ञानवैचित्र्यहेतुर्नार्थवैचित्र्यमित्याह -

अपि चेति ।

पूर्वानुभववासनाभावेऽप्यपूर्वार्थसंनिधाने ज्ञानवैचित्र्यदर्शनादन्वयव्यतिरेकासिद्धिरित्याशङ्क्याह -

स्वप्नेति ।

अन्वयमुक्त्वा व्यतिरेकमाह -

अन्तरेणेति ।

ज्ञानातिरिक्तज्ञेयस्योक्तरीत्या विचारासहत्वात्क्षणिकज्ञानमात्रवादस्य प्रामाणिकत्वादर्थान्नित्यज्ञानाद्ब्रह्यणो जगत्सर्गवादिनः समन्वयस्य विरोधोऽस्तीत्युपसंहरति -

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।