ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
नाभाव उपलब्धेः ॥ २८ ॥
‘नाभाव उपलब्धेरि’ ति । न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते । कस्मात् ? उपलब्धेः — उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थः — स्तम्भः कुड्यं घटः पट इति । न चोपलभ्यमानस्यैवाभावो भवितुमर्हति । यथा हि कश्चिद्भुञ्जानो भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयात् — ‘नाहं भुञ्जे न वा तृप्यामि’ इति — तद्वदिन्द्रियसन्निकर्षेण स्वयमुपलभमान एव बाह्यमर्थम् , ‘नाहमुपलभे न च सोऽस्ति’ इति ब्रुवन् , कथमुपादेयवचनः स्यात् । ननु नाहमेवं ब्रवीमि — ‘न कञ्चिदर्थमुपलभे’ इति । किं तु ‘उपलब्धिव्यतिरिक्तं नोपलभे’ इति ब्रवीमि । बाढमेवं ब्रवीषि निरङ्कुशत्वात्ते तुण्डस्य, न तु युक्त्युपेतं ब्रवीषि, यत उपलब्धिव्यतिरेकोऽपि बलादर्थस्याभ्युपगन्तव्यः, उपलब्धेरेव । न हि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते । उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्सर्वे लौकिका उपलभन्ते । अतश्च एवमेव सर्वे लौकिका उपलभन्ते, यत् प्रत्याचक्षाणा अपि बाह्यमर्थम् एवमाचक्षते — ‘यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासते’ इति — तेऽपि हि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः, प्रत्याख्यातुकामाश्च बाह्यमर्थम् , ‘बहिर्वत्’ इति वत्कारं कुर्वन्ति । इतरथा हि कस्मात् ‘बहिर्वत्’ इति ब्रूयुः । न हि ‘विष्णुमित्रो वन्ध्यापुत्रवदवभासते’ इति कश्चिदाचक्षीत । तस्मात् यथानुभवं तत्त्वम् अभ्युपगच्छद्भिः बहिरेवावभासते इति युक्तम् अभ्युपगन्तुम् , न तु बहिर्वत् अवभासत इति । ननु बाह्यस्यार्थस्यासम्भवात् बहिर्वदवभासते इत्यध्यवसितम् । नायं साधुरध्यवसायः, यतः प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ सम्भवासम्भवाववधार्येते, न पुनः सम्भवासम्भवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती । यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते, तत्सम्भवति । यत्तु न केनचिदपि प्रमाणेनोपलभ्यते, तन्न सम्भवति । इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योऽर्थ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न सम्भवतीत्युच्येत — उपलब्धेरेव । न च ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसारूप्यानुपपत्तेः, बहिरुपलब्धेश्च विषयस्य । अत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोरुपायोपेयभावहेतुकः, न अभेदहेतुकः — इत्यभ्युपगन्तव्यम् । अपि च घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपटयोर्भेदः, न विशेष्यस्य ज्ञानस्य — यथा शुक्लो गौः कृष्णो गौरिति शौक्ल्यकार्ष्ण्ययोरेव भेदः, न गोत्वस्य । द्वाभ्यां च भेद एकस्य सिद्धो भवति, एकस्माच्च द्वयोः । तस्मादर्थज्ञानयोर्भेदः । तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् । अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदः, न विशेषणस्य घटस्य — यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदः, न विशेषणस्य क्षीरस्य, तद्वत् । अपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैव उपक्षीणयोः इतरेतरग्राह्यग्राहकत्वानुपपत्तिः । ततश्च — विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगताः — ता हीयेरन् । किञ्चान्यत् — विज्ञानं विज्ञानमित्यभ्युपगच्छता बाह्योऽर्थः स्तम्भः कुड्यमित्येवंजातीयकः कस्मान्नाभ्युपगम्यत इति वक्तव्यम् । विज्ञानमनुभूयत इति चेत् , बाह्योऽप्यर्थोऽनुभूयत एवेति युक्तमभ्युपगन्तुम् । अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते, न तथा बाह्योऽप्यर्थ इति चेत् — अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छसि — अग्निरात्मानं दहतीतिवत् । अविरुद्धं तु लोकप्रसिद्धम् — स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्योऽर्थोऽनुभूयत इति नेच्छसि; अहो पाण्डित्यं महद्दर्शितम् । न चार्थाव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेव । ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्वे, तदप्यन्येन ग्राह्यं तदप्यन्येन — इत्यनवस्था प्राप्नोति । अपि च प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति तदुभयमप्यसत् । विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः, साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः, स्वयंसिद्धस्य च साक्षिणोऽप्रत्याख्येयत्वात् । किञ्चान्यत् — प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथते इति ब्रुवता अप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् — शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् । बाढमेवम् — अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वया अनुज्ञायत इति चेत् , न; अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात् । अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते । साक्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपता स्वयं प्रथते विज्ञानम् इत्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् , न; विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात् । अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम् ॥ २८ ॥
नेति ; न चेति ; यथेति ; नन्विति ; बाढमिति ; यत इति ; उपलब्धेरिति ; न हीति ; अतश्चेति ; तेऽपीति ; इतरथेति ; न हीति ; तस्मादिति ; नन्विति ; नायमिति ; नेति ; यद्धीति ; इहेति ; न चेति ; बहिरिति ; अत इति ; अपि चेति ; न विशेष्यस्येति ; यथेति ; द्वाभ्यामिति ; एकस्माच्चेति ; तस्मादिति ; तथेति ; अत्रापीति ; अपि चेति ; द्वयोरिति ; ततश्चेति ; क्षणिकत्वादीति ; स्वलक्षणेति ; सामान्येति ; वास्येति ; अविद्येति ; बन्धेति ; मोक्षेति ; प्रतिज्ञाश्चेति ; किञ्चेति ; विज्ञानमिति ; विज्ञानमिति ; बाह्योऽपीति ; अथेति ; अत्यन्तेति ; न चेति ; नन्विति ; अपि चेति ; प्रदीपवदिति ; समत्वादिति ; तदिति ; विज्ञानेति ; साक्षीति ; स्वयमिति ; किञ्चेति ; प्रदीपवदिति ; शिलेति ; बाढमिति ; नेति ; साक्षिण इति ; नेति ; अत इति ॥ २८ ॥ ;

सूत्राक्षराणि व्याचष्टे -

नेति ।

उपलभ्यमानमपि शुक्तिरजतादिवन्मिथ्येत्याशङ्क्याबाधान्मैवमित्याह -

न चेति ।

उपलब्धिरेवासिद्धेत्याशङ्क्य सर्वथाऽनुपलब्धिर्वा ज्ञानातिरिक्तत्वेन वेति विकल्प्याद्ये दोषमाह -

यथेति ।

द्वितीयमवलम्बते -

नन्विति ।

प्रकाश्यप्रकाशकयोर्द्रवकठिनवद्विरुद्धयोर्भेदस्याध्यक्षत्वात्तद्बाधितमभेदवचनमित्याह -

बाढमिति ।

निरङ्कुशत्वं नियामकराहित्यम् ।

परोक्तेरयुक्तत्वमेव साधयति -

यत इति ।

किं तद्बलं व्यतिरिक्तोपलब्धिरित्याह -

उपलब्धेरिति ।

हेतुमेव स्फुटयति -

न हीति ।

उपलब्धिर्हि साक्षिणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रत्वेनेत्यर्थः ।

भवद्वचनादपि बाह्यमर्थं लौकिका भेदेनैव प्रतियन्तीत्याह -

अतश्चेति ।

कथं यथोक्तं वाक्यं व्यतिरेकोपलब्धिसाधकमित्याशङ्‌क्याह -

तेऽपीति ।

सर्वलोकप्रसिद्धबाह्यार्थधीप्रतिलम्भे हेतुमाह -

इतरथेति ।

अत्यन्तासतोऽपि बाह्यार्थस्य दृष्टान्तत्वमाशङ्क्याह -

न हीति ।

अबाधितव्यतिरेकोपलब्धौ वत्करणमयुक्तमिति फलितमाह -

तस्मादिति ।

अनुमानतो बाधाद्युक्तं वत्करणमिति शङ्कते -

नन्विति ।

अनुमानस्याबाधितविषयतापि हेतुः, प्रत्यक्षविरोधे तदभावान्न तस्य बाधकतेत्याह -

नायमिति ।

प्रमाणपूर्वकः सम्भवोऽर्थज्ञाने तदभावपूर्वकश्चासम्भवो नरविषाणे निश्चितः । बाह्यर्थे च प्रत्यक्षादिसम्भवादसम्भवाधीनस्तदसत्त्वाध्यवसायो न युक्त इत्यर्थः ।

सम्भवपूर्विका प्रमाणप्रवृत्तिरसम्भवपूर्विका तदप्रवृत्तिरिति वैपरीत्यमाशङ्क्यान्योन्याश्रयत्वान्मैवमित्याह -

नेति ।

सम्भाविते प्रमाणमित्युपगमस्तर्हि कथमित्याशङ्क्यात्र सम्भवासम्भवयोर्निश्चयतदभावत्वादन्यत्र सम्भावनायाः सन्देहत्वान्नानुपपत्तिरित्याह -

यद्धीति ।

बाह्यर्थस्याध्यक्षादिसिद्धत्वेऽपि तस्यावयवादिभ्यो व्यतिरेकादिविकल्पासहत्वान्न सम्भावनेत्याशङ्क्याह -

इहेति ।

बाह्यार्थस्यायुक्तत्वमदृष्टत्वं वा । नाद्योऽङ्गीकारात् । नेतरो दृष्टिविरोधात् । तस्मादिदन्तास्पदं ज्ञानाद्भिन्नं बाह्यं वस्तु सिद्धमित्यर्थः ।

यत्तु प्रत्यर्थं ज्ञानस्य व्यवस्थायै विषयसारूप्ये तेनैव विषयाकारस्यावरुद्धत्वान्न पृथगर्थकल्पनेति, तत्राह -

न चेति ।

यत्तु कल्पनागौरवमिति, तत्राह -

बहिरिति ।

प्रामाणिकी कल्पना न दुष्यतीत्यर्थः ।

यत्तु ‘सहोपलम्भनियमादभेदो नीलतद्धियोः’ इति, तत्र सहोपलम्भः साहित्येनोपलम्भो वा स्यादेकोपलभ्भो वा । प्रथमे साध्यसाधनयोर्व्याघातः, साहित्यस्य भेदव्याप्तत्वात् । द्वितीये त्वेकत्वेनोपलब्धिर्वा स्यादेकैवोपलब्धिर्वा । नाद्यः, असिद्धेः । नहि बहिरुपलभ्यमानस्यार्थस्योपलब्ध्या सहैकत्वेनोपलब्धिः । न द्वितीयः, साक्षिवेद्यत्वाद्धटाद्युपलब्धेर्घटादेश्च तद्विषयत्वादसिद्धितादवस्थ्यादित्याशयेनान्यथासिद्धिमाह -

अत इति ।

भेदस्य प्रत्यक्षत्वादिति यावत् ।

परकीयानुमानानां प्रत्यनुमानविरोधमाह -

अपि चेति ।

न विशेष्यस्येति ।

प्रत्यभिज्ञानादैक्यसिद्धेरित्यर्थः ।

विशेषणभेदेऽपि विशेष्यभेदो नेत्यत्र दृष्टान्तमाह -

यथेति ।

तथापि कथं ज्ञानार्थभेदः, तत्राह -

द्वाभ्यामिति ।

विमतमनेकस्माद्भिन्नम् , एकत्वात् , गोत्ववदित्यर्थः ।

विमतमेकस्मादन्यत् , अनेकत्वात् , संमतवदित्याह -

एकस्माच्चेति ।

अनुमानद्वयफलं परानुमाने साध्यासिद्धिमाह -

तस्मादिति ।

अर्थभेदेऽपि ज्ञानाभेदात्तयोर्भेदमुक्त्वा ज्ञेयाभेदेऽपि विज्ञानभेददृष्टेश्च तयोर्भिन्नतेत्याह -

तथेति ।

यथा घटज्ञानं पटज्ञानमित्यत्र ज्ञेयभेदेऽपि ज्ञानाभेदात्तयोर्भिन्नत्वं तथाऽत्रापि ज्ञानभेदे ज्ञेयैक्यदृष्ट्या तद्भिन्नत्वधीरित्यर्थः ।

तदेव प्रकटयति -

अत्रापीति ।

अनुमानद्वयं पूर्ववत् ।

स्वरूपापेक्षया ज्ञानस्याभेदेन नित्यत्वं वृत्त्युपधानापेक्षया चानित्यत्वमित्यविरोधः । इतश्च ज्ञानातिरिक्तोऽर्थोऽस्तीत्याह -

अपि चेति ।

हेत्वन्तरमेव वक्तुं स्वरूपमात्रनिष्ठं ज्ञानं त्वन्मते ज्ञानान्तरवार्तानभिज्ञमित्याह -

द्वयोरिति ।

ज्ञानयोरन्योन्यग्राहकत्वाभावेऽपि कथमतिरिक्तार्थधीरित्याशङ्क्याह -

ततश्चेति ।

इदमस्माद्भिन्नमिति धर्मिप्रतियोग्यवच्छिन्नो भेदो भाति, ज्ञानस्यैव धर्मित्वे प्रतियोगित्वे च तेन द्वयोरग्रहाद्भेदप्रतिज्ञा ते न युक्ता । तेन तदुपपत्तये ज्ञानार्थयोर्भिन्नतेत्यर्थः ।

किञ्च क्षणिकत्वं शून्यत्वमनात्मत्वमित्यादिधर्मप्रतिज्ञापि ते हीयेत, अनेकप्रतिज्ञाहेतुदृष्टान्तज्ञानभेदसाध्यत्वात् , तस्य च मिथोवार्तानभिज्ञत्वात्ततो भिन्नं ज्ञेयमित्याह -

क्षणिकत्वादीति ।

स्वमसाधारणं सर्वतो व्यावृत्तं लक्षणं स्वलक्षणं तदपि येभ्यो व्यावृत्तं यच्च व्यावृत्तं तदनेकज्ञानापेक्षं, ज्ञानं च ज्ञानान्तरवार्तानभिज्ञमुक्तमतः स्वलक्षणप्रतिज्ञार्थमपि ज्ञानाद्भिन्नं ज्ञेयमित्याह -

स्वलक्षणेति ।

सामान्यलक्षणमपि विधिरूपमन्यापोहरूपं वा भवत्यनेकधीसाध्यं, नहि गोत्वं धर्मिणीनां प्रतियोगिनीनां वा व्यक्तीनामग्रहे गृह्यते, तेन तत्प्रतिज्ञार्थमपि ज्ञानज्ञेययोरन्यत्वमित्याह -

सामान्येति ।

पूर्वज्ञानमुत्तरज्ञानस्य नीलाद्याकारेण वासकं, तच्च वास्यवासकत्वं त्वन्मतेऽनेकधीसाध्यम् , अतस्तत्प्रतिज्ञार्थमपि ज्ञानज्ञेययोरन्यत्वमित्याह -

वास्येति ।

अविद्योपप्लवोऽविद्यासंसर्गस्तेन नीलमिति सद्धर्मो नरविषाणमित्यसद्धर्मोऽमूर्तमित्युभयधर्मस्तत्प्रतिज्ञापि बहुज्ञानसाध्यत्वादुक्तभेदावेदिकेत्याह -

अविद्येति ।

बन्धप्रतिज्ञा च यो बध्यते यतश्च बध्यते तदनेकधीसाध्यत्वादुक्तभेदहेतुरित्याह -

बन्धेति ।

मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते तदनेकज्ञानसाध्यत्वाद्भेदसाधनमित्याह -

मोक्षेति ।

यच्च किञ्चित्प्रतिपादयितुं प्रत्याख्यातुं वा प्रतिज्ञायते तत्प्रतिज्ञापि प्रतिपादयितृप्रतिपाद्याद्यनेकधीसाध्यत्वादिष्टभेदहेतुरित्यादिपदम् ।

एता हि प्रतिज्ञाः सौगतमते दृष्टा ज्ञानज्ञेयभेदानुपगमे विहताः स्युः, तस्मात्तदर्थं ज्ञानज्ञेयान्यत्वमावश्यकमित्याह -

प्रतिज्ञाश्चेति ।

ज्ञानातिरिक्तं ज्ञेयमावश्यकमित्यत्रान्यच्च कारणमस्तीत्याह -

किञ्चेति ।

तदेव वदन्विज्ञानेन तुल्यत्वं विज्ञेयस्य कथयति -

विज्ञानमिति ।

व्यवहारदशायामबाधितासन्दिग्धभानत्वाज्ज्ञानं शक्यमुपगन्तुमिति शङ्कते -

विज्ञानमिति ।

तथा भानस्यार्थेऽपि तुल्यत्वात्तदुपगमो बलादापततीत्याह -

बाह्योऽपीति ।

स्वसंवेद्यत्वाद्विज्ञानमिष्यते बाह्यर्थस्तु नैवमित्याह -

अथेति ।

अविरुद्धं लोकसिद्धं च हित्वा विरुद्धमलौकिकं चाभ्युपयता मौढ्यमेवात्मनो दर्शितं स्यादित्याह -

अत्यन्तेति ।

ज्ञानं स्वसंवेद्यमर्थो नैवमिति भेदमुपेत्योक्तम् । इदानीं ज्ञानस्य न स्वसंवेद्यतेत्याह -

न चेति ।

स्वात्मनि कर्तरि कर्मत्वं गृहीत्वा क्रियास्वीकारे कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यमित्यपर्यायमेकस्यां क्रियायामेकस्यैव गुणत्वं प्राधान्यं चेति विरुद्धमापद्येत । तन्नार्थवज्ज्ञानमपि स्वसंवेद्यमित्यर्थः ।

कथं ते ज्ञानसिद्धिः कर्मत्वातिरेकेण कर्मतया वा । नाद्यः, धीकर्मतया सिद्धस्यैव सिद्धत्वाभिधानात् । न द्वितीयः, ज्ञानान्तरकर्मत्वेऽनवस्थानात्तत्परिहारार्थं स्वकर्मतयैव तत्सिद्धिध्रौव्यादिति शङ्कते -

नन्विति ।

इतश्च ज्ञानस्य न ज्ञानान्तरकर्मत्वमित्याह -

अपि चेति ।

विमतं न स्वावान्तरजातीयप्रकाश्यं, प्रकाशत्वात् , दीपवदित्याह -

प्रदीपवदिति ।

ज्ञानान्तरं कल्पयतः कल्पनानर्थक्यमिति सम्बन्धः । तत्र हेतुः -

समत्वादिति ।

अनवस्थाप्रसक्तिरनुमानं चेत्युभयमपि न साधकमिति दूषयति -

तदिति ।

तत्रानवस्थाप्रसक्तेरसत्त्वं साधयति -

विज्ञानेति ।

यदि बुद्धिवृत्तिग्रहावस्थायामेव तत्साक्षिणो ग्रहाकाङ्क्षा तदानवस्था, नतु सास्ति साक्षिणः स्वयंसिद्धत्वादित्यर्थः ।

अनुमानं सिद्धसाध्यत्वेन निरस्यति -

साक्षीति ।

यत्प्रकाशते तदन्येन प्रकाशते, यथा ज्ञानार्थौ, प्रकाशते च साक्षीति न धीसाक्षिणोर्वैलक्षण्यमित्याशङ्क्याह -

स्वयमिति ।

सदैवासन्दिग्धाविपर्यस्तस्य साक्षिणो नित्यसाक्षात्कारत्वमनागन्तुकप्रकाशत्वे सिध्यति, तेन तत्प्रत्याख्यानायोगादनुमानस्य सिद्धा सिद्धसाध्यतेत्यर्थः ।

इतश्च साक्षिणो न प्रत्याख्यानमित्याह -

किञ्चेति ।

यथा दीपो दीपान्तरं नापेक्षते तथा ज्ञानमपि ज्ञानान्तरानपेक्षमिति वदता मानागम्यं तदुक्तं स्यात् , स्वसंवेद्यत्वे कर्मकर्तृत्वविरोधादन्यवेद्यत्वस्यानिष्टत्वात् । स्वयमेव प्रथते तदिति ब्रुवता निःसाक्षिकं तदुक्तं स्यात् । तथाचोत्पन्नस्यापि तस्यानुत्पन्नसमत्वात्तत्प्रकाशकसाक्षी न शक्योऽपह्नोतुमित्याह -

प्रदीपवदिति ।

प्रकाशमानस्याप्रामाणिकत्वमनवगन्तृकत्वं वा दूषणमित्याशङ्क्य दृष्टान्तमाह -

शिलेति ।

ज्ञानस्यैवावगन्तृकत्वान्नान्यापेक्षेति शङ्कते -

बाढमिति ।

ज्ञानं स्वातिरिक्तवेद्यं, वेद्यत्वात् , दीपवदित्यनुमानान्न तस्य प्रमातृतेत्याह -

नेति ।

दर्शनादित्यन्तं व्याप्तिवचनम् । अतो विज्ञानस्येत्याद्यनुमानोक्तिरिति भेदः ।

साक्षिस्थाने मदिष्टं ज्ञानमेवास्तु ततो नास्ति विमतिरिति शङ्कते -

साक्षिण इति ।

ज्ञानस्योत्पत्त्यादिमत्त्वात्तत्साधकेन भाव्यं, क्रियात्वाच्च छिदिवत्कर्त्राश्रयत्वमित्यतिरिक्तज्ञातृत्वसिद्धिरित्याह -

नेति ।

साक्षिज्ञानयोर्वैलक्षण्ये फलितमाह -

अत इति ॥ २८ ॥