ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
नैकस्मिन्नसम्भवात् ॥ ३३ ॥
निरस्तः सुगतसमयःविवसनसमय इदानीं निरस्यतेसप्त चैषां पदार्थाः सम्मताःजीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नामसंक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ, यथायोगं तयोरेवेतरान्तर्भावात्इति मन्यन्तेतयोरिममपरं प्रपञ्चमाचक्षते, पञ्चास्तिकाया नामजीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेतिसर्वेषामप्येषामवान्तरभेदान्बहुविधान्स्वसमयपरिकल्पितान्वर्णयन्तिसर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्तिस्यादस्ति, स्यान्नास्ति, स्यादस्ति नास्ति , स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति नास्ति चावक्तव्यश्चेतिएवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति

एकरूपाद्ब्रह्मणो जगत्सर्गं वदन्समन्वयो विषयः । स किं सर्वमनैकान्तिकमिति मतेन विरुध्यते न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे सङ्गतिमाह -

निरस्त इति ।

समयमात्रसिद्धपञ्चस्कन्धादिपदार्थाश्रितन्यायाभासे निरस्ते पञ्चास्तिकायादिसामयिकपदार्थाश्रितन्यायाभाससन्दृब्धे मते बुद्धिस्थे तन्निरसनं युक्तमित्यर्थः ।

एकरूपब्रह्मसमन्वयविरोध्यनैकान्तवादभङ्गेन समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे तन्मतप्रामाण्यात्तद्विरोधे समन्वयासिद्धिः, सिद्धान्ते तदप्रामाण्याद्भ्रान्तेन तेन विरोधस्याभासतया तत्सिद्धिरित्यभिसन्धाय पूर्वपक्षयति -

सप्त चेति ।

जीवाजीवौ भौक्तृभोग्यौ, मिथ्याप्रवृत्तिरास्रवः, संवरनिर्जरौ सम्यक्प्रवृत्ती, बन्धस्तद्धेतुत्वात्कर्म, मोक्षस्तदुच्छित्तिरिति पदार्थाः सप्तेत्यर्थः ।

ननु भोक्तृभोग्ययोरितरेषामन्तर्भावात्कथं सप्तेत्युक्तं, लक्षणभेदादवान्तरलक्ष्यभेदे सप्तेति न व्यवस्था, तत्राह -

सङ्क्षेपतस्त्विति ।

नियमहेतुमाह -

यथेति ।

आस्रवादीनामजीवे मोक्षस्य पक्षभेदादुभयत्रान्तर्भाव इति विभागः ।

सङ्क्षेपविस्तराभ्यामुक्तपदार्थेषु विस्तरान्तरमाह -

तयोरिति ।

अस्तीति कायते शब्द्यत इत्यस्तिकायशब्दः पारिभाषिकः पदार्थवाची । जीवश्चासावस्तिकायश्चेति कर्मधारयः । पूर्यन्ते गलन्तीति पुद्गलाः परमाणवस्तत्समूहोऽत्र पृथिव्यादिरुक्तः । कर्मधारयः सर्वत्र । धर्मास्तिकायः सम्यक्प्रवृत्त्यनुमेयः । शास्त्रीयबाह्यप्रवृत्त्यान्तरोऽपूर्वाख्यो धर्मोऽनुमीयते । अधर्मास्तिकायः स्थित्यनुमेयः । ऊर्ध्वगमनशीलो जीवस्तस्य देहेऽवस्थानेनाधर्मोऽनुमीयते । आकाशास्तिकायस्त्वावरणाभावः ।

उक्तपदार्थानामवान्तरभेदमाह -

सर्वेषामिति ।

तेषां मानयुक्तिहीनत्वं सूचयति -

स्वसमयेति ।

जीवास्तिकायस्त्रेधा - बद्धो मुक्तो नित्यसिद्धश्च । तत्रार्हन्मुनिर्नित्यसिद्धः । इतरे केचित्साधनैर्मुक्ताः । अन्ये बद्धा इति भेदः । पुद्गलास्तिकायः षोढा । पृथिव्यादिचत्वारि भूतानि स्थावरं जङ्गमं चेति । प्रवृत्तिस्थितिभ्यामनुमेयौ धर्माधर्मास्तिकायावुक्तौ । आकाशास्तिकायो द्वेधा - लौकिकाकाशोऽलौकिकाकाशश्च । लोकानामन्तर्वर्ती लोकाकाशः । तदुपरि मोक्षस्थानमलोकाकाशः । आस्त्रवो मिथ्याप्रवृत्तिरुक्ता । आस्त्रवयति पुरुषं ज्ञानजननेन विषयेष्विति नानाविधेन्द्रियप्रवृत्तिरास्रव इत्येके । अपरे तु कर्तारमभिव्याप्य स्रवन्त्यागच्छन्तीति कर्माण्यास्रवमाचक्षते । सम्यक्प्रवृत्ती संवरनिर्जरौ । तत्रास्रवस्रोतोद्वारं संवृणोतीति संवरः शमादिप्रवृत्तिः । निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरस्तप्तशिलारोहणावरोहणादिः । बन्धो बध्नातीति कर्म तच्चाष्टविधम् । तत्र घातिकर्म चतुर्विधं ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति । सम्यग्ज्ञानं न मोक्षहेतुरिति ज्ञानं विज्ञानावरणीयम् । आर्हतमताभ्यासान्न मुक्तिरिति ज्ञानं दर्शनावरणीयम् । बहुषु तीर्थकरदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् । सन्मोक्षमार्गप्रवृत्तानां तत्प्रत्यूहकरं ज्ञानमन्तरायम् । तान्येतानि श्रेयोहन्तृत्वाद्धातिकर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमित्यघातिकर्मापि चतुर्विधम् । ममेदं ज्ञातव्यमस्तीत्यभिमानो वेदनीयम् । एतन्नामास्मीत्यभिमानो नामिकम् । अस्य शिष्यवंशे पतितोऽस्मीत्यभिमानो गोत्रिकम् । शरीरयात्रानिमित्तं कर्मायुष्कम् । अथवा सक्रियस्य बीजस्य पावकपवनवशादीषद्धनीभावः शरीराकारपरिणामहेतुर्वेदनीयम् । तच्छक्तिमति तस्मिन्बीजे कललाख्यद्रवावस्थायां बुद्बुदावस्थायां चारम्भकक्रियाविशेषो नामिकम् । बीजस्य शरीराकारपरिणामशक्तिर्गोत्रिकम् । शुक्रशोणितव्यतिकरे जाते मिलितं तदुभयरूपमायुष्कम् । तान्येतानि शुक्लपुद्गलाश्रयत्वादघातीनि कर्माणि । तदेतत्कर्माष्टकं बध्नातीति बन्धः । यद्यपि पूर्वोक्तास्रवोऽपि बन्धस्तथापि बन्धहेतुत्वादयमपि बन्ध इति द्रष्टव्यम् । आर्हतमुनिप्राप्तिः सन्ततोर्ध्वगतिर्वा मुक्तिरित्यर्थः । तथापि कथं वस्तु समस्तमनेकान्तमित्याशङ्क्याह -

सर्वत्रेति ।

अस्तित्वनास्तित्वादाविति यावत् । सप्तानामेकान्तभङ्गानां समाहारः सप्तभङ्गी तस्या नयः । घटः सन् घटोऽसन्नित्येकस्यैव सदसत्त्वयोरध्यक्षत्वात्कालभेदोपाधिकल्पनायां कालस्यापि सन्नसन्निति प्रत्ययात्तत्रापि तत्कल्पनायामनवस्थानात्प्रत्यक्षमेव वस्तूनामनैकान्त्यमिति भावः ।

वस्तूनामेकान्तत्वभङ्गाः सप्त कथं कदा च प्रसरन्तीत्यपेक्षायामाह -

स्यादिति ।

स्याच्छब्दस्तिङन्तप्रतिरूपको निपातोऽनेकान्तद्योती । तेन स्यादस्ति कथञ्चिदस्तीत्यर्थः । तथोत्तरत्रापि योजना । उक्तं हि - ‘तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते क्रमेणोभयवीक्षायां प्रयोगः समुदायवान् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः । आद्याऽवाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः । समुच्चयेन युक्तस्य सप्तमो भङ्ग इष्यते । ‘ इति ।

सत्त्वादावुक्तमनैकान्तिकमेकत्वादावतिदिशति -

एवमेवेति ।

यदि वस्तु सत्त्वादीनामेकतमेन व्यवस्थितं तदा तस्य सर्वथा सर्वदा सर्वत्र सर्वात्मना नियमे तदीप्साजिहासाभ्यां प्रवृत्तिनिवृत्त्ययोगादप्रवृत्तिनिवृत्ति विश्वं स्यात् । अनैकान्तिकत्वे तु कस्यचित्कथञ्चित्केनचिदवस्थाने हानोपादाने प्रेक्षावतां प्रकल्प्येते, तस्मादनैकान्तिकं सर्वमिति मतविरोधिसमन्वयो नेति भावः ।