ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
एवं चात्माकार्त्स्न्यम् ॥ ३४ ॥
यथैकस्मिन्धर्मिणि विरुद्धधर्मासम्भवो दोषः स्याद्वादे प्रसक्तः, एवमात्मनोऽपि जीवस्य अकार्त्स्न्यमपरो दोषः प्रसज्येतकथम् ? शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्तेशरीरपरिमाणतायां सत्याम् अकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येतशरीराणां चानवस्थितपरिमाणत्वात् मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन् कृत्स्नं हस्तिशरीरं व्याप्नुयात्पुत्तिकाजन्म प्राप्नुवन् कृत्स्नः पुत्तिकाशरीरे संमीयेतसमान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषःस्यादेतत्अनन्तावयवो जीवःतस्य एवावयवा अल्पे शरीरे सङ्कुचेयुः , महति विकसेयुरितितेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्यते वा, वेति वक्तव्यम्प्रतिघाते तावत् नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन्अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रत्वप्रसङ्गः स्यात्अपि शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् ॥ ३४ ॥

सूत्राक्षराणि व्याचष्टे -

यथेति ।

परमतवदस्मन्मतेऽपि न दोषप्रसक्तिरित्याह -

कथमिति ।

तत्प्रसङ्गार्थं परपक्षमाह -

शरीरेति ।

तत्र दोषं प्रसञ्जयति -

शरीरेति ।

आत्मत्वमनित्यवृत्ति, परिच्छिन्नवृत्तित्वात् , घटवदिति प्रसङ्गार्थः ।

अकृत्स्नत्वेन सूचितं दोषान्तरमाह -

शरीराणां चेति ।

कर्मणो विपाकः स्वफलं जनयितुमङ्कुरीभावः । कृत्स्नं हस्तिशरीरं न व्याप्नुयात् । तदेकदेशो जीवशून्यः स्यादित्यर्थः । पुत्तिकाशरीरे कृत्स्नो न संमीयेत । तस्मिन्ननन्तर्भूतस्ततो बहिरपि जीवः स्यादित्यर्थः ।

किञ्च कौमारे स्वल्पपरिमाणो जीवस्तारुण्ये स्थाविरे च न कृत्स्नं शरीरं व्याप्नुयादित्याह -

समान इति ।

यथा प्रदीपो घटप्रासादोदरे वर्तमानः सङ्कोचविकासवानेवं जीवोऽपि पुत्तिकाहस्तिदेहयोरित्याह -

स्यादिति ।

दीपावयवानां विशरणशीलत्वात् , अवयविनश्च दीपस्य प्रतिक्षणमुत्पत्तिनिरोधवतोऽनित्यत्वात् . नित्यात्मदृष्टान्तत्वासिद्धिरिति मत्वा विकल्पयति -

तेषामिति ।

आद्ये देहाद्बहिरपि जीवोपगतिरित्याह -

प्रतिघात इति ।

एकावयवदेशत्वेऽपि तथैवावयवानामवस्थाननियमाभावे परिमाणनियमो नात्मनि स्यादिति द्वितीयं प्रत्याह -

अप्रतिघातेऽपीति ।

जीवावयवानामानन्त्यमङ्गीकृत्योक्त्वा तदपि नास्तीत्याह -

अपि चेति ।

परिमितत्वादित्यर्थः ॥ ३४ ॥