ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अथ पर्यायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति, तनुशरीरप्रतिपत्तौ केचिदपगच्छन्तीत्युच्येत; तत्राप्युच्यते

बृहत्तनुदेहाप्ताववयवोपगमापगमाभ्यां जीवस्य देहपरिमाणताऽविरुद्धेत्याह -

अथेति ।

चोद्योत्तरत्वेन सूत्रमादत्ते -

तत्रापीति ।