प्रतिज्ञां विभजते -
न चेति ।
प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
विकारप्रसङ्गं प्रकटयति -
अवयवेति ।
आत्मनः समुद्रादिवद्विक्रियावत्त्वमिष्टमित्याशङ्क्याह -
विक्रियेति ।
अनित्यत्वप्रसङ्गस्येष्टत्वं निराह -
ततश्चेति ।
तदर्थं तदभ्युपगमं दर्शयति -
कर्मेति ।
न चात्मनोऽनित्यत्वे युक्तोऽयमुपगमो बन्धमोक्षान्वयिनोऽभावात् । नहि तौ स्वतन्त्रौ तद्भावे बन्धस्यानादित्वान्मुक्तस्य चानाशित्वान्नानित्यतेत्यर्थः ।
आदिशब्दसूचितमर्थमाह -
किञ्चेति ।
यस्यात्मा सावयवस्तस्यावयवानामात्मत्वम् अवयविनो वा । आद्येऽपि किमागमापायिनां तेषामात्मत्वं तद्धीनस्य वा कस्यचिदवयवस्येति विकल्प्याद्यं प्रत्याह -
आगच्छतामिति ।
कल्पान्तरं परिशिष्टमादत्ते -
ततश्चेति ।
तस्य विशेषतोऽपरिज्ञानादात्मज्ञानाभावादपवर्गासिद्धिरित्याह -
न चेति ।
आद्ये कल्पे दोषान्तरमाह -
किञ्चेति ।
अवयवप्रादुर्भावापादानत्वं तद्विलयाधारत्वं च महाभूतानां वा व्यतिरिक्तस्य वा कस्यचिदिति विमृश्याद्यं प्रत्याह -
न हीति ।
द्वितीयेऽपि प्रतिजीवमसाधारणः सर्वसाधारणो वेति विकल्प्य दूषयति -
नापीति ।
तथा चात्मज्ञानाभावादमुक्तिरेवेत्यर्थः ।
अवयवानां नात्मत्वमवयविनस्तु तथात्वमिति मतं प्रत्याह -
किञ्चेति ।
एवं सति आत्मनोऽवयवित्वे सतीति यावत् ।
तत्र हेतुमाह -
आगच्छतामिति ।
किञ्च प्रत्येकमवयवा न चेतयेरन्नेकाभिप्रायत्वानियमात् । विरुद्धाभिप्रायतया विरुद्धक्रियत्वेन शरीरोन्मथनप्रसङ्गः । न चावयवसमूहस्य चैतन्यं, तस्य भेदाभेदाभ्यां दुर्भणत्वादिति मत्वाऽह -
अत इति ।
प्रकारप्रकारिणौ पञ्चमीभ्यामुक्तौ ।
प्रकारान्तरेण सूत्रमवतारयति -
अथवेति ।
तदेव दर्शयति -
पूर्वेणेति ।
आत्माऽकार्त्स्न्यसूत्रेण प्रसञ्जितां तदनित्यतां सन्ताननित्यतया सुगतवत्परिहर्तव्यामाशङ्क्येदं सूत्रमित्यर्थः । पर्यायेण शरीरव्यक्तिभेेदेन परिमाणस्यात्मनिष्ठस्यैकरूपस्यानवस्थानादनवस्थितपरिमाणस्यात्मनोऽनित्यत्वे शङ्कितेऽपि स्रोतोरूपेण तत्परिमाणस्य च यः सन्तानस्तस्य नित्यतैव न्यायस्तेनेति यावत् ।
व्यक्तीनामनित्यत्वेऽपि सन्ताननित्यत्वे दृष्टान्तः -
यथेति ।
सिग् वस्त्रं विगतं येभ्यस्ते विसिचो विवसनास्तेषामपि पुत्तिकादेहहस्तिदेहादावात्मपरिमाणस्यानवस्थितत्वेऽपि तत्सन्ताननित्यत्वेनात्मनित्यत्वमाशङ्क्य सूत्रमित्याह -
तद्वदिति ।
तदेव विवृणोति -
सन्तानस्येति ।
पर्यायशब्देन क्रमभाविपरिमाणगतः सन्तानो गृह्यते, तन्नित्यत्वादपि नात्मनित्यत्वम् । तस्य हि वस्तुत्वमवस्तुत्वं वा । द्वितीये राद्धान्तविरोधमुक्त्वा प्रथमं प्रत्याह -
वस्तुत्वेऽपीति ।
स हि सन्तानिभ्योऽभिन्नो भिन्नो वा । अभेदे प्रतिदेहं परिमाणभेदानां सन्तानिनामन्यथात्वात्कार्यत्वेनानित्यत्वात्तदभिन्नसन्तानस्यापि तथात्वम् । भेदे तत्सन्तानत्वायोगाद्भिन्नत्वेन घटादिवद्विकारादिप्रसङ्गादात्मनित्यत्वं सन्ताननित्यतया यदुच्यते तस्यानुपपत्तिरित्यर्थः । इतिशब्दः सूत्रव्याख्यासमाप्त्यर्थः ॥ ३५ ॥