ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सम्बन्धानुपपत्तेश्च ॥ ३८ ॥
पुनरप्यसामञ्जस्यमेव हि प्रधानपुरुषव्यतिरिक्त ईश्वरोऽन्तरेण सम्बन्धं प्रधानपुरुषयोरीशिता तावत्संयोगलक्षणः सम्बन्धः सम्भवति, प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्चनापि समवायलक्षणः सम्बन्धः, आश्रयाश्रयिभावानिरूपणात्नाप्यन्यः कश्चित्कार्यगम्यः सम्बन्धः शक्यते कल्पयितुम् , कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात्ब्रह्मवादिनः कथमिति चेत् , ; तस्य तादात्म्यलक्षणसम्बन्धोपपत्तेःअपि आगमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमोऽस्तिपरस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतः यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयःपरस्यापि सर्वज्ञप्रणीतागमसद्भावात् समानमागमबलमिति चेत् , ; इतरेतराश्रयप्रसङ्गात्आगमप्रत्ययात्सर्वज्ञत्वसिद्धिः सर्वज्ञत्वप्रत्ययाच्चागमसिद्धिरितितस्मादनुपपन्ना साङ्ख्ययोगवादिनामीश्वरकल्पनाएवमन्यास्वपि वेदबाह्यास्वीश्वरकल्पनासु यथासम्भवमसामञ्जस्यं योजयितव्यम् ॥ ३८ ॥

प्रधानवादे दोषान्तरमाह -

सम्बन्धेति ।