ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सम्बन्धानुपपत्तेश्च ॥ ३८ ॥
पुनरप्यसामञ्जस्यमेव हि प्रधानपुरुषव्यतिरिक्त ईश्वरोऽन्तरेण सम्बन्धं प्रधानपुरुषयोरीशिता तावत्संयोगलक्षणः सम्बन्धः सम्भवति, प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्चनापि समवायलक्षणः सम्बन्धः, आश्रयाश्रयिभावानिरूपणात्नाप्यन्यः कश्चित्कार्यगम्यः सम्बन्धः शक्यते कल्पयितुम् , कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात्ब्रह्मवादिनः कथमिति चेत् , ; तस्य तादात्म्यलक्षणसम्बन्धोपपत्तेःअपि आगमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमोऽस्तिपरस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतः यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयःपरस्यापि सर्वज्ञप्रणीतागमसद्भावात् समानमागमबलमिति चेत् , ; इतरेतराश्रयप्रसङ्गात्आगमप्रत्ययात्सर्वज्ञत्वसिद्धिः सर्वज्ञत्वप्रत्ययाच्चागमसिद्धिरितितस्मादनुपपन्ना साङ्ख्ययोगवादिनामीश्वरकल्पनाएवमन्यास्वपि वेदबाह्यास्वीश्वरकल्पनासु यथासम्भवमसामञ्जस्यं योजयितव्यम् ॥ ३८ ॥

प्रकृतासामञ्जस्ये हेत्वन्तरपरं सूत्रमिति सूचयति -

पुनरिति ।

कथमीश्वरस्य प्रधानपुरुषाभ्यां सम्बन्धोऽस्त्युत न । नास्ति चेदधिष्ठात्रधिष्ठेयताऽसिद्धिरित्याह -

न हीति ।

अस्ति चेत्तर्हि स संयोगो वा समवायो वा योग्यता वेति विकल्प्याद्यं दूषयति -

न तावदिति ।

अप्राप्तप्राप्तिरव्याप्यवृत्तिश्च संयोगस्य स्वरूपम् । तत्र प्रधानादिष्वप्राप्तप्राप्तेरभावे हेतुमाह -

प्रधानेति ।

अव्याप्यवृत्तित्वाभावेऽपि हेतुमाह -

निरवयवत्वादिति ।

द्वितीयं निरस्यति -

नापीति ।

तृतीयं प्रत्याह -

नाप्यन्य इति ।

प्रधानकार्यत्वस्य जगतोऽसिद्धत्वात्प्रधानेश्वरयोः सम्बन्धस्य कार्यकल्प्यस्यायोगादित्यर्थः ।

तवापि मायाब्रह्मणोर्विभुत्वान्निरवयवत्वाच्च संयोगासिद्धिः समवायस्यानिष्टत्वात्कार्यकारणत्वस्य चासिद्धत्वात्कार्यगम्ययोग्यतासम्बन्धायोगान्नाधिष्ठात्रधिष्ठेयतेति शङ्कते -

ब्रह्मेति ।

मायाब्रह्मणोरनिर्वाच्यतादात्म्यसम्बन्धान्न साम्यमित्याह -

नेति ।

इतोऽपि ब्रह्मवादिनो न दोषसाम्यमित्याह -

अपि चेति ।

तथापि दृष्टमनुसर्तव्यं, नेत्याह -

नावश्यमिति ।

दृष्टविरुद्धेऽत्यन्तादृष्टे चागमस्य प्रवृत्तेरित्यर्थः ।

अनुमानवादिनि विशेषमाह -

परस्येति ।

ईश्वरवादिनोऽपि तुल्यत्वादागमबलस्यानुमानबलमधिकमिति शङ्कते -

परस्यापीति ।

किमीश्वरस्य सर्वज्ञत्वं तत्कृतागमाद्गम्यते किंवाऽनुमानादिति विकल्प्याद्ये दोषमाह -

नेत्यादिना ।

सर्वज्ञकृतत्वेनागमप्रामाण्ये ततः सर्वज्ञकृतत्वं ज्ञेयं, ततश्च तस्य प्रामाण्यमिति नैकमपि सिध्यति । अस्माकं त्वनादिसिद्धाद्वेदादनपेक्षादलौकिकमपि यूपादिवद्दृष्टं स्यादिति भावः ।

न चानुमानादीश्वरः सर्वज्ञो ज्ञायते, दृष्टबलप्रवृत्तेरनुमानादीश्वरं साधयतः स्वाभ्युपगमवैपरीत्यध्रौव्यस्योक्तत्वादित्युपसंहरति -

तस्मादिति ।

साङ्ख्ययोगोक्तन्यायं चतुर्विधमाहेश्वरेषु वैशेषिकादिषु चातिदिशति -

एवमिति ॥ ३८ ॥