सूत्रं व्याकरोति -
इतश्चेति ।
अनुपपत्तिं वक्तुं परस्येश्वरकल्पनामनुवदति -
स हीति ।
अस्मदादिवदीश्वरेणापि प्रधानादीनामधिष्ठेयत्वं न युक्तं तेनार्थापत्तेरनुत्थानादित्याह -
नचेति ।
विमतं न चेतनाधिष्ठेयम् , अप्रत्यक्षत्वात् , मृदादिवदिति व्यतिरेकिणानुपपत्तिमेव स्फुटयति -
नहीति ।
अप्रत्यक्षत्वमुद्भूतरूपादिराहित्येन स्फोरयति -
रूपादीति ॥ ३९ ॥