करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥
स्यादेतत् — यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं च पुरुषोऽधितिष्ठति, एवं प्रधानमपीश्वरोऽधिष्ठास्यतीति । तथापि नोपपद्यते । भोगादिदर्शनाद्धि करणग्रामस्य अधिष्ठितत्वं गम्यते । न चात्र भोगादयो दृश्यन्ते । करणग्रामसाम्ये च अभ्युपगम्यमाने संसारिणामिव ईश्वरस्यापि भोगादयः प्रसज्येरन् ॥
अन्यथा वा सूत्रद्वयं व्याख्यायते — ‘अधिष्ठानानुपपत्तेश्च’ — इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य; साधिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते, न निरधिष्ठानः; अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमिच्छतः ईश्वरस्यापि किञ्चिच्छरीरं करणायतनं वर्णयितव्यं स्यात्; न च तद्वर्णयितुं शक्यते, सृष्ट्युत्तरकालभावित्वाच्छरीरस्य, प्राक्सृष्टेस्तदनुपपत्तेः; निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्तिः, एवं लोके दृष्टत्वात् । ‘करणवच्चेन्न भोगादिभ्यः’ — अथ लोकदर्शनानुसारेण ईश्वरस्यापि किञ्चित्करणानामायतनं शरीरं कामेन कल्प्येत — एवमपि नोपपद्यते; सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गात् ईश्वरस्याप्यनीश्वरत्वं प्रसज्येत ॥ ४० ॥